उपराष्ट्रपतेः आह्वानेन दिल्ली विश्वविद्यालये नशा-मुक्त परिसर अभियानं’ शुभारब्धम्
— नशा-मुक्तिशिविराणि यूनां देशस्य च भविष्यं प्रति प्रतिबद्धता : धर्मेंद्र प्रधानः नव दिल्ली, 13 जनवरीमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् मंगलवासरे दिल्लीविश्वविद्यालये “नशामुक्त-परिसर-अभियानस्य” शुभारम्भं कृत्वा देशव्यापि नशामुक्त-पर
उपराष्ट्रपति सी. पी. राधाकृष्णन और केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधान मंगलवार को डीयू में ड्रग फ्री कैंपस अभियान के शुभारंभ के अवसर पर


— नशा-मुक्तिशिविराणि यूनां देशस्य च भविष्यं प्रति प्रतिबद्धता : धर्मेंद्र प्रधानः

नव दिल्ली, 13 जनवरीमासः (हि.स.)।

उपराष्ट्रपतिः सी. पी. राधाकृष्णन् मंगलवासरे दिल्लीविश्वविद्यालये “नशामुक्त-परिसर-अभियानस्य” शुभारम्भं कृत्वा देशव्यापि नशामुक्त-परिसराणां आवश्यकतायां बलं दत्तवान्। सः अवदत् यत् स्वस्थाः, नशामुक्ताः च लक्ष्यनिष्ठाः युवजनाः एव विकसितस्य आत्मनिर्भरस्य च भारतस्य निर्माणे दृढा आधारशिला भवन्ति।

उपराष्ट्रपतिना स्वीयेन संबोधने उक्तं यत् विश्वविद्यालयाः केवलं अध्ययनकेन्द्राणि न सन्ति, अपि तु मूल्यनिर्माणस्य, नेतृत्वविकासस्य च केन्द्राणि सन्ति, ये राष्ट्रस्य भविष्यं आकारयन्ति। सः संचेतनां दत्तवान् यत् नशा केवलं व्यक्तिगतसमस्या न, अपि तु गम्भीरा सामाजिकचुनौती, सार्वजनिकस्वास्थ्यस्य संकटं तथा राष्ट्रियसुरक्षायाः अपि खतरा अस्ति, यस्य सम्बन्धः नार्को-आतंकवादेन अपि अस्ति।

सः युवजनान् नशात् दूरं स्थित्वा चरित्रस्य, अनुशासनस्य च उद्देश्यपूर्णस्य जीवनस्य ग्रहणाय आह्वानं कृतवान्। तेन उक्तं यत् नशामुक्ताः युवजनाः एव विकसितस्य आत्मनिर्भरस्य भारतस्य स्वप्नं साकारीकर्तुं शक्नुवन्ति।

उपराष्ट्रपतिः अवदत् यत् यदा दिल्लीविश्वविद्यालयसदृशाः प्रतिष्ठिताः संस्थानाः नशाविरोधे दृढं दृष्टिकोणं स्वीकरोति, तदा सम्पूर्णसमाजाय सशक्तः सन्देशः प्रेष्यते। अस्मिन् अवसरॆ “नशामुक्त-परिसर-अभियानस्य” अन्तर्गतं एकस्य समर्पितस्य ई-प्रतिज्ञा-मञ्चस्य तथा चलदूरभाषा-अनुप्रयोगस्य (मोबाइल एप) अपि शुभारम्भः कृतः।

उपराष्ट्रपतिः देशव्यापिनां विश्वविद्यालयानां छात्रान् अस्मिन् अभियाने सक्रियतया भागं ग्रहीतुं तथा नशामुक्त-परिसर-प्रतिज्ञां कर्तुं अनुरोधं कृतवान्। तेन केन्द्रीयशिक्षामन्त्रिणं धर्मेन्द्रप्रधानं प्रति आह्वानम् अपि कृता यत् अयं अभियानः सर्वेषां केन्द्रीय-उच्चशिक्षण-संस्थानानां अभिन्नाङ्गं क्रियताम्।

सः अवदत् यत् भारतं युव-राष्ट्रम् अस्ति तथा मादकपदार्थानां दुरुपयोगः केवलं व्यक्तिगतसमस्या न, अपि तु गम्भीरा सामाजिकचुनौती, सार्वजनिकस्वास्थ्यस्य विषयः तथा देशस्य जनसांख्यिक-क्षमतायाः कृते खतरा अस्ति। नशा शारीरिक-मानसिक-स्वास्थ्ये, शैक्षणिक-प्रदर्शने, पारिवारिक-सौहार्दे, उत्पादकत्वे तथा राष्ट्रीयसुरक्षायां प्रतिकूलं प्रभावं जनयति, यस्य सम्बन्धः नार्को-आतंकवादेन अपि अस्ति।

उपराष्ट्रपतिः अवदत् यत् स्वस्थाः नशामुक्ताः लक्ष्यनिष्ठाः च युवजनाः एव कौशलार्जने, उद्यमितायां तथा आर्थिकविकासे सार्थकं योगदानं दातुं समर्थाः भवन्ति। भारतस्य प्राचीनपरम्पराणां उल्लेखं कृत्वा तेन आत्मसंयमस्य, मानसिकसन्तुलनस्य तथा शुद्धाचारस्य महत्वं प्रतिपादितम्। सः प्रधानमन्त्रिणा नरेन्द्रमोदिना योगध्यानयोः प्रवर्धनार्थं कृतान् प्रयत्नान् प्रशंसितवान्।

उपराष्ट्रपतिः “माय् भारत् पोर्टल्” तथा “प्रधानमन्त्री-अनुसन्धान-योजना” इत्यादीनां पहलानां उल्लेखं कृत्वा अवदत् यत् एते कार्यक्रमाः यूनाम् ऊर्जसम् अनुसन्धानस्य, नवाचारस्य, स्वैच्छिक-सेवायाः तथा राष्ट्रनिर्माणस्य दिशि प्रेरयन्ति। सः अवदत् यत् राष्टिय-शिक्षा-नीति–2020 अपि मानसिकस्वास्थ्ये, जीवनकौशलेषु तथा छात्रकल्याणे बलं दत्त्वा अस्य समग्रदृष्टिकोणस्य प्रतिबिम्बं दर्शयति।

दिल्लीविश्वविद्यालयस्य प्रशंसां कृत्वा उपराष्ट्रपतिः अवदत् यत् जागरूकता-कार्यक्रमैः, परामर्श-तन्त्रैः, छात्रनेतृत्वयुक्तैः पहलैः तथा विविध-हितधारकाणां सहयोगेन एषः संस्थानः आदर्शः नशामुक्त-परिसरः भविष्यति। सः छात्रान् सतर्कं भवितुं, संकटे मित्राणां सहयोगं कर्तुं, नशाविरोधे स्वरं उत्थापयितुं तथा स्वयं उदाहरणं स्थापयितुं आह्वानं कृतवान्।

अस्मिन् अवसरे केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अवदत् यत् दिल्लीविश्वविद्यालये नशामुक्त-परिसर-अभियानस्य शुभारम्भः युवजनानां तथा राष्ट्रस्य भविष्यं प्रति दृढप्रतिबद्धतां दर्शयति। सः अवदत् यत् अयं अभियानः “नशामुक्त-भारत-अभियानस्य” महत्वपूर्णः अङ्गः अस्ति तथा देशस्य प्रायः षोडशलक्ष-शैक्षणिक-संस्थानपर्यन्तं अस्य विस्तारः दर्शयति यत् अस्माकं शैक्षणिकसंस्थानानि ड्रग्-फ्री-इण्डिया-अभियाने अग्रिमपङ्क्तौ सन्ति।

केन्द्रीयमन्त्री अवदत् यत् छात्रकल्याणं राष्ट्रिय-शिक्षा-नीतेः–2020 प्रमुखप्राथमिकतासु अन्तर्भवति तथा नशामुक्त-परिसर-अभियानं पूर्णतया एनईपी-दृष्टिकोणेन अनुरूपः अस्ति। सः अवदत् यत् अस्य पहलया सह दिल्लीविश्वविद्यालयेन नशामुक्त-उच्चशिक्षण-संस्थानानां दिशि महत्त्वपूर्णं पदं अग्रे नीतम्।

प्रधानः शिक्षकान् प्रशासकान् च आह्वानं कृत्वा अवदत् यत् एतादृशं परिसर-संस्कृतिं विकसितुं प्रयत्नः क्रियताम्, यत्र छात्राणां शैक्षणिक-सहयोगेन सह भावनात्मक-सहयोगः अपि लभ्यते। सः छात्रान्, शिक्षकान्, प्रशासकान् च स्वस्वपरिसरान् नशामुक्तान् कर्तुं संकल्पं कर्तुं आह्वानं कृतवान्। सः अवदत् यत् एषः केवलं अभियानः न, अपि तु युवशक्तेः, समाजस्य तथा राष्ट्रस्य प्रति एकः सामूहिकः संकल्पः अस्ति, यः समर्पणेन, संवेदनशीलतया तथा पूर्णप्रतिबद्धतया अग्रे नीयमानः भवेत्।

कार्यक्रमे दिल्ली-सर्वकारस्य शिक्षामन्त्री आशीष सूदः, दिल्लीविश्वविद्यालयस्य कुलपतिः प्रो. योगेशसिंहः, वरिष्ठाः अधिकारीणः, शिक्षकगणाः तथा बहुसंख्यकाः छात्राः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार