Enter your Email Address to subscribe to our newsletters

लखनऊ, 13 जनवरीमासः (हि. स.)। केंद्रीय संसदीयकार्य एवं अल्पसंख्यककार्य मंत्री किरण् रिजिजू मङ्गलवासरे लखनऊ नगरं प्राप्नोत्। चौधरी चरणसिंह अन्तरराष्ट्रीय विमानपत्तने भारतीय जनता पार्टी नेतृभिः तस्य स्वागतं कृतम्। ततः प्रदेश भारतीय जनता पार्टी मुख्यालयं प्राप्ते सति प्रदेशाध्यक्षः पङ्कज चौधरी केन्द्रीयमन्त्रिणः स्वागतं अकरोत्।
केन्द्रीयमन्त्री अद्य लखनऊ नगरे त्रिषु कार्यक्रमेषु भागं ग्रहीष्यति। प्रथमं सः इन्दिरा गांधी प्रतिष्ठाने आयोजितायां भारतीय जनता पार्टी संगठनात्मकायां बैठके उपस्थितो भविष्यति। अस्यां बैठके प्रदेश भारतीय जनता पार्टी अध्यक्षः पङ्कज चौधरी, प्रदेश महामन्त्री संगठन धर्मपाल सिंह इत्यादयः पार्टी पदाधिकारिणः उपस्थिताः भविष्यन्ति।
ततः केन्द्रीयमन्त्री किरण् रिजिजूः इन्दिरा गांधी प्रतिष्ठाने एव विकसित भारत ग्राम जागरूकता अभियानस्य अन्तर्गतं आयोजितायां प्रेस् वार्तायां सम्बोधनं करिष्यति।
अपरं सायं चतुर्वादनसमये क्राइस्ट चर्च महाविद्यालये आयोजिते अल्पसंख्यक स्नेह संवाद कार्यक्रमे केन्द्रीयमन्त्री सहभागितां करिष्यति।------------------
हिन्दुस्थान समाचार