Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 13 जनवरीमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः, लोकसभाध्यक्षः ओम बिरला, गृहमन्त्री अमित शाहः इत्यादयः बहवः नेतारः सामाजिकमाध्यमे “एक्स्” नाम्नि मंचे देशवासिभ्यः लोहड़ी मकरसंक्रान्ति पोंगल माघबिहु इत्येषां पर्वणां शुभाशयान् प्रेषितवन्तः। सर्वे नेतारः जनानां सुखसमृद्धि खुशाली नूतनऊर्जां च कामितवन्तः। तैः उक्तं यत् एते पर्वाणि समृद्धकृषिपरम्पराणां प्रकृतेः प्रति कृतज्ञतायाः राष्ट्रियैक्यस्य च प्रतीकरूपेण विकसितानि सन्ति।
राष्ट्रपतिः द्रौपदी मुर्मु विश्वस्य सर्वेषु भागेषु निवसतां भारतीयान् प्रति लोहड़ी मकरसंक्रान्ति पोंगल माघबिहु इत्येषां शुभकामनाः प्रेषयित्वा अवदत् यत् एते पर्वाणि भारतस्य समृद्धकृषिपरम्पराणां राष्ट्रियैक्यस्य च प्रतीकानि सन्ति। अस्मिन् अवसरॆ वयं प्रकृतेः प्रति कृतज्ञतां व्यक्तीकुर्मः अन्नदातृकिसानानां च आभारं प्रकटयामः। मम मंगलकामना अस्ति यत् एते पर्वाणि सर्वेषां जीवने सुखसमृद्धेः संचारं कुर्वन्तु।
लोकसभाध्यक्षः ओम बिरला अवदत् यत् तिलगुडस्य माधुर्यं ढोलस्य नादः गिद्दा भांगड़ा इत्यादीनां ऊर्जया सह लोहड़ी पर्वः भवतां जीवने सुखं समृद्धिं नूतनान् आनन्दान् च आनयतु इति मम शुभेच्छा।
गृहमन्त्री अमित शाहः अवदत् यत् उत्साहस्य उमङ्गस्य नूतनऊर्जायाः च प्रतीकं लोहड़ी पर्वं सर्वेषां सुखसमृद्धेः कारणं भवतु।
कांग्रेसाध्यक्षः मल्लिकार्जुन खरगे अवदत् यत् आशा अस्ति यत् हर्षोल्लासपूर्णं इदं पर्व भवतां जीवने अपरिमितान् आनन्दान् समृद्धिं च आनेष्यति।
केन्द्रीयसड़कपरिवहनमन्त्री नितिन गडकरी अवदत् यत् इदं पावनं पर्व सर्वेभ्यः खुशालीं सुखशान्तिं सकारात्मकऊर्जां च प्रददातु।
केन्द्रीयशिक्षामन्त्री धर्मेन्द्र प्रधान अवदत् यत् एषः लोकपर्वः सर्वेषां जीवने नूतनऊर्जां उत्साहं च संचारयतु तथा समाजे सौहार्दं समृद्धिं खुशालीं च अधिकं दृढं करोतु इति मम मंगलकामना।
लोकसभायां नेता प्रतिपक्षः राहुल गांधी अवदत् यत् एषः पावनः उत्सवः सर्वेषां जीवने बह्व्यः खुशाः सुखं शान्तिं च आनयतु।
पेट्रोलियमप्राकृतिकवायुमन्त्री हरदीप सिंह पुरी मातृप्रकृतिः सर्वेषां प्रति स्वकृपां धारयतु तथा सर्वेषां जीवनं आनन्दखुशाभिः परिपूर्णं भवतु इति कामना कृतवान्।
केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराज सिंह चौहान देशवासिनां खुशालीं कामयित्वा अवदत् यत् प्रत्येकं गृहम् आङ्गनं च धनधान्यसुखसमृद्धिभिः परिपूरितं भवतु। प्रत्येकस्मिन् क्षेत्रे सस्यानि ललितानि भवन्तु तथा लोहड़ीपर्वस्य पावनः प्रकाशः भवतां सर्वेषां जीवने नवाशां नूतनऊर्जां अपरिमिताः खुशाः च आनयतु इति तस्य प्रार्थना।
केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्र सिंह शेखावत अवदत् यत् उमङ्गोल्लासखुशालीपूर्णस्य लोहड़ीपर्वणः अवसरॆ सर्वे देशवासिनः विशेषतः पञ्जाबप्रदेशस्य मम भ्रातरः भगिन्यः च ऊर्जया आरोग्येण च परिपूर्णाः भवन्तु इति शुभेच्छाः।
केन्द्रीयवस्त्रमन्त्री गिरिराज सिंह अवदत् यत् लोहड़ीपर्व भवतां सर्वेषां जीवने सुखं समृद्धिं प्रसन्नतां च आनयतु।
---------------
हिन्दुस्थान समाचार