Enter your Email Address to subscribe to our newsletters

सम्पूर्ण माघ मेला क्षेत्रं नो व्हीकल जोन इति वर्तिष्यते मुख्य स्नान पर्वणि न भविष्यति अक्षयवटस्य दर्शनम्
प्रयागराजः (उत्तर प्रदेशः), 13 जनवरीमासः (हि.स.)।
प्रयागराजनगरे गङ्गा–यमुना–सरस्वतीनां त्रिवेणीसंगमे विश्वविख्यातस्य माघमेलायाः प्रमुखस्नानपर्वद्वयं मकरसंक्रान्तिः (१५ जनवरी) मौनीअमावस्या च (१८ जनवरी) इत्येतयोः अवसरयोः श्रद्धालूनां वाहनानां च आवागमने परिवर्तनव्यवस्था प्रवर्तिता अस्ति। एषा व्यवस्था अद्य १३ जनवरी सायं अष्टवादनात् प्रवर्तयिष्यते। एतत् माघमेला-प्रभारी पुलिस-अधीक्षकः नीरजपाण्डेयः अवदत्।
तेन उक्तं यत् माघमेला–२०२६ अन्तर्गतं द्वितीयं तृतीयं च मुख्यस्नानपर्व सम्यक् सम्पन्नं कर्तुं १३ जनवरी सायं अष्टवादनात् १९ जनवरी रात्रौ चतुर्विंशतिवादनपर्यन्तं अथवा मेलाक्षेत्रस्य संमर्दसमाप्तिपर्यन्तं सम्पूर्णे मेलाक्षेत्रे प्रशासनिकचिकित्सकीयवाहनान् विहाय सर्वेषां प्रकाराणां वाहनानां आवागमनं निषिद्धं भविष्यति।
मेलाक्षेत्रस्य परेड, झूंसी, अरैल इत्येषु क्षेत्रेषु आगच्छन्तः श्रद्धालवः स्नानार्थिनश्च तेषु तेषु क्षेत्रेषु निर्मितेषु संगमस्नानघाटेषु एव स्नानं करिष्यन्ति।
नगरमार्गेण, कानपुरमार्गेण, लखनऊमार्गेण च आगच्छन्तः श्रद्धालवः स्नानार्थिनश्च स्वीयानि वाहनानि प्लॉटसंख्या १७ इत्याख्यायां पार्किङ्गस्थले स्थापयित्वा पादचारिणः कालीमार्गेण अपरसंगममार्गं गत्वा संगमघट्टे, संगमहनुमानघट्टे, संगमरामघाटे च स्नानार्थं गच्छेयुः। स्नानानन्तरं श्रद्धालवः अक्षयवटमार्गेण खडञ्जाप्रत्यावर्तनमार्गेण च त्रिवेणीमार्गं गत्वा स्वसम्बद्धपार्किङ्गस्थलं प्राप्य वाहनैः स्वगन्तव्यं प्रतिगच्छेयुः।
एवमेव गल्लामण्डीपार्किङ्गस्थले श्रद्धालवः वाहनानि स्थापयित्वा काली–२ मार्गेण बेणीबाँय, मोरीरैम्पमार्गेण किलाघाटमार्गं गत्वा संगममोरीघट्टे संगमशिवालाघट्टे च स्नानं कर्तुं शक्नुवन्ति। स्नानानन्तरं गङ्गामूर्तिचौराहात् ओल्ड-जीटी-मार्गेण अथवा रिवरफ्रण्टमार्गेण स्वसम्बद्धपार्किङ्गस्थलं गत्वा वाहनैः स्वगन्तव्यं प्रतिगच्छेयुः।
नागवासुकिपार्किङ्गस्थले श्रद्धालवः वाहनानि स्थापयित्वा पादचारिणः नागवासुकिसंगमस्नानघाटे स्नानं करिष्यन्ति, स्नानानन्तरं तस्मात् एव पार्किङ्गस्थलात् वाहनैः स्वगन्तव्यं गच्छेयुः।
जौनपुर–वाराणसीमार्गेण आगच्छन्तः श्रद्धालवः ओल्ड-जीटी-कछारपार्किङ्गस्थले वाहनानि स्थापयित्वा नागवासुकिमार्गेण पान्टूनपुलसंख्या ४ तथा ५ पाश्चात्ययोः मध्ये निर्मितेषु संगमस्नानघाटेषु स्नानं करिष्यन्ति। स्नानानन्तरं ओल्ड-जीटी-मार्गेण पुनः पार्किङ्गस्थलं गत्वा वाहनैः स्वगन्तव्यं प्रतिगच्छेयुः।
महुआबागपार्किङ्गस्थले वाहनानि स्थापयित्वा जीटीरोडटीकरमाफीमार्गेण त्रिवेणीमार्गं गत्वा संगमलोवरमार्गेण अक्षयवटमार्गं प्राप्य संगमऐरावतघाटे स्नानं कर्तुं शक्नुवन्ति। स्नानानन्तरं महावीरमार्गेण रिवरफ्रण्टमार्गेण च स्वसम्बद्धपार्किङ्गस्थलं गत्वा गन्तव्यं प्रतिगच्छेयुः।
सोहमआश्रमपार्किङ्गस्थले वाहनानि स्थापयित्वा रिवरफ्रण्ट–झूंसीमार्गेण अक्षयवटमार्गं गत्वा पुलसंख्या १ दक्षिणे निर्मिते संगमऐरावतस्नानघाटे स्नानं करिष्यन्ति। स्नानानन्तरं महावीरमार्गेण समुद्रकूपमार्गेण अथवा रिवरफ्रण्ट–झूंसीमार्गेण पार्किङ्गस्थलं गच्छेयुः।
मिर्जापुर–रीवामार्गेण आगच्छन्तः श्रद्धालवः देवरखकछारपार्किङ्गस्थले वाहनानि स्थापयित्वा सोमेश्वरमहादेवरैम्पमार्गेण सोमेश्वरमहादेवसंगमस्नानघाटे स्नानं करिष्यन्ति। स्नानानन्तरं तेनैव मार्गेण पार्किङ्गस्थलं प्रतिगच्छेयुः।
गंजियापार्किङ्गस्थले वाहनानि स्थापयित्वा अरैलघाटमार्गेण अरैलरैम्पं गत्वा संगमअरैलघाटे, संगमचक्रमाधवघाटे, अन्येषु च संगमस्नानघाटेषु स्नानं कर्तुं शक्नुवन्ति। स्नानानन्तरं अरैलरैम्पमार्गेण पुनः गंजियापार्किङ्गस्थलं गच्छेयुः।
नवप्रयागम्-पार्किङ्गस्थले वाहनानि स्थापयित्वा नवप्रयागम्-अपरोचमार्गेण अरैलबाँधमार्गं गत्वा संकटमोचनमार्गेण संगमस्नानघाटेषु स्नानं करिष्यन्ति। स्नानानन्तरं महाकालरैम्पमार्गेण पुनः पार्किङ्गस्थलं प्रतिगच्छेयुः।
पान्टूनपुलानां आवागमनव्यवस्था
पान्टूनपुलेषु एकमार्गव्यवस्था प्रवर्तिता अस्ति। परेडतः झूंसीं प्रति गमनाय पान्टूनसेतुसंख्या ३, ५, ७ प्रयोजनीयाः, झूंसीतः परेडं प्रति आगमनाय पान्टूनपुलसंख्या ४, ६ प्रयोजनीयाः। पान्टूनपुलसंख्या १, २ आपत्कालव्यवस्थायै आरक्षितौ भविष्यतः।
मेलाक्षेत्रस्य सर्वेषु संगमस्नानघाटेषु वाहनानां प्रवेशः तथा वाहनपार्किङ्गं पूर्णतया निषिद्धं भविष्यति।
---------------
हिन्दुस्थान समाचार