Enter your Email Address to subscribe to our newsletters

- महाकाल-महालोके में आयोजितस्य पञ्चदिवसीयमहोत्सवस्य प्रथमदिने शंकरमहादेवनः स्वपुत्रैः सह प्रदास्यन्ति प्रस्तुतिः
भोपालम्, 13 जनवरीमासः (हि.स.)।मध्यप्रदेशस्य उज्जयिनी-नगरे प्रथमवारं श्रीमहाकाल-महोत्सवस्य आयोजनं भवति। अस्य महोत्सवस्य शुभारम्भं मुख्यमंत्री डॉ. मोहनयादवः बुधवासरे करिष्यन्ति।
विश्वप्रसिद्ध-ज्योतिर्लिङ्गस्य भगवतः बाबा महाकालस्य नगरी उज्जयिनी पुनरेकवारं भारतीय-संस्कृतेः, कलायाः च अटूट-श्रद्धायाश्च महोत्सवस्य साक्षी भवितुं सज्जा अस्ति। अत्र प्रथमवारं श्रीमहाकाल-महोत्सवः आयोज्यते। 14 जनवरी, सायं 7 वादने, श्रीमहाकाल-महालोके एषः पञ्चदिवसीयः महोत्सवः आरभ्यते।
मुख्यमन्त्रिणः संस्कृति-सलाहकारः तथा वीरभारत-न्यासस्य न्यासी-सचिवः श्रीरामतिवारी मङ्गलवासरे अवदत् यत्—महोत्सवस्य मुख्य-सभासु देशस्य ख्यातिलब्धाः कलाकाराः भगवतः शिवस्य आराधनां स्वर-लहरिभिः करिष्यन्ति। महोत्सवस्य प्रथम-दिने, 14 जनवरी, सुप्रसिद्धः पार्श्वगायकः शंकरमहादेवनः स्वपुत्राभ्यां सिद्धार्थेन शिवमेन च सह ‘शिवोऽहम्’ इति संगीतमयां प्रस्तुतिं दास्यति। संगीत-नृत्य-नाट्य-लोकपरम्पराणां एषः संगमः उज्जयिन्याः देश-विदेशयोः सांस्कृतिक-मानचित्रे नूतनाम् उन्नतां प्रदास्यति।
तिवारीमहोदयेन उक्तं यत्—यत्र नगरे कालः अपि नतमस्तकः भवति तथा आस्था अनादितः अनन्तपर्यन्तं प्रवहति, तस्यां पावनायाम् उज्जयिन्यां 14 जनवरीतः 18 जनवरी 2026 पर्यन्तं आयोजितः श्रीमहाकाल-महोत्सवः केवलं सांस्कृतिक-कार्यक्रमः न, अपितु भारतवर्षस्य स्वाभिमान-पर्वः अस्ति। अयं महोत्सवः शिव-चेतनायाः, लोक-परम्परायाः तथा वैश्विक-सांस्कृतिक-संवादस्य अद्भुतं संगमं प्रस्तोष्यति। अस्मिन् अवसरे श्रीमहाकालेश्वर-मन्दिर-प्रबन्ध-समितेः पुनर्संयोजित-आन्तर्जालस्य लोकार्पणम् तथा ‘महाकाल-सृष्टि’ नामकस्य यूट्यूब-शृङ्खलायाः शुभारम्भः अपि भविष्यति।
अस्य महोत्सवस्य विशेषता इति यत्—अत्र शास्त्रीयं च लोकं, परम्परा च आधुनिकता, देशजं च वैश्विकं सर्वाः धाराः एकत्र प्रवहिष्यन्ति। शंकरमहादेवनः सिद्धार्थः शिवमश्च यदा शिव-भक्तेः भारतीय-संगीतस्य च उत्कर्षं स्वरैः प्रकटयिष्यन्ति, तदा सः क्षणः केवलं श्रवणस्य न, अपि तु साधनायाः भविष्यति। तदनन्तरं सोनामहापात्रा, द ग्रेट इंडियन क्वायर, विपिन अनेजा, श्रेयसशुक्ला इत्यादीनां कलाकाराणां सहभागिता अस्य मंचस्य गौरवं वर्धयिष्यति।
महोत्सवस्य अन्यतमः महत्वपूर्णः पक्षः जनजातीय-लोककला अस्ति। प्रतिदिनम् उज्जयिन्याः विभिन्न-स्थानेभ्यः निर्गताः कला-यात्राः वाद्य-नृत्य-रङ्ग-समन्विताः श्रीमहाकाल-महालोकं प्राप्स्यन्ति। एषा यात्रा केवलं मार्गस्य न, अपि तु सन्ततिः-सन्ततिः सञ्चित-परम्परायाः वर्तमान-संयोगस्य माध्यमः भविष्यति। जनजातीय-कलाकाराणां प्रस्तुतयः अस्य महोत्सवस्य हृदयम् भविष्यन्ति।
अस्य महोत्सवस्य ऐतिहासिक-विशेषता अपि अस्ति यत्—इण्डोनेशिया तथा श्रीलङ्कायाः नाट्य-दलानां सहभागितया भारतस्य प्राचीन-सांस्कृतिक-संबन्धानां पुनःस्मरणं भविष्यति। एषा सहभागिता दर्शयिष्यति यत् भारतस्य सभ्यता केवलं भौगोलिक-सीमासु न बद्धा, अपि तु वैश्विक-क्षेत्रेषु सांस्कृतिक-सेतून् निर्मितवती अस्ति।
तिवारी महोदयेन उक्तं यत् श्रीमहाकाल-महोत्सवः एतादृशः प्रथमः आयोजनः अस्ति, यत्र आध्यात्मं, लोक-संस्कृतिः तथा वैश्विक-संस्कृतिः एकस्मिन् मंचे संगच्छन्ति। अयं महोत्सवः उज्जयिनीं केवलं धार्मिक-तीर्थरूपेण न, अपि तु वैश्विक-सांस्कृतिक-केन्द्ररूपेण प्रतिष्ठापयिष्यति। निःसन्देहं अयं आयोजनः आगामि-पीढीनां कृते सांस्कृतिक-प्रेरणायाः स्रोतः भविष्यति।
सुराणां सरिता - प्रमुख-कलाकाराणां प्रस्तुतयः
महोत्सवस्य मुख्यसभासु देशस्य ख्यातिलब्धाः कलाकाराः भगवतः शिवस्य आराधना स्वस्वर- तरङ्गैः करिष्यन्ति।
- 14 जनवरीमासः - सुप्रसिद्धः पार्श्वगायकः शंकरमहादेवनः पुत्राभ्यां सह ‘शिवोऽहम्’ संगीतमय-प्रस्तुतिः प्रदास्यति।
- 15 जनवरीमासः - मुम्बई-स्थितः ‘द ग्रेट इंडियन क्वायर’ (शिव-थीम) इत्यस्मिन् प्रस्तुतिः प्रदास्यति।
- 16 जनवरीमासः - सुप्रसिद्धा गायिका सोना महापात्रा स्व संगीतमय-प्रस्तुतेः दर्शकान् मन्त्र मुग्धं करिष्यन्ति।
- 17 जनवरीमासः - इंदौरस्य श्रेयस शुक्ला तथा विपिन अनेज-बैण्डस्य सुगम-संगीतस्य प्रस्तुतिः प्रदास्यति।
- 18 जनवरीमासः - महोत्सवस्य समापनम् इण्डोनेशिया (कोकोरदा पुत्रा) तथा श्रीलङ्कायाः (अरियारन्ने कालूराच्ची) दलैः शिव-केन्द्रित-नृत्य-नाटिकया भविष्यति।
बौद्धिक-विमर्शः — ‘शिवतत्त्वं च महाकालः’
सांस्कृतिक-प्रस्तुतिभिः सह 15 जनवरी दिने प्रातः 10:30 वादने एकस्य अन्तरराष्ट्रीय-संगोष्ठ्याः आयोजनं भविष्यति। अस्याः संगोष्ठ्याः विषयः “शिवतत्त्वं च महाकालः - पुरातिहास-साहित्य-संस्कृति-परिप्रेक्ष्ये” इति निश्चितः अस्ति, यत्र विद्वांसः शिवतत्त्वस्य दार्शनिक-गाम्भीर्ये प्रकाशं करिष्यन्ति। अस्यां संगोष्ठ्यां दशाधिक-देशेभ्यः तथा भारतस्य द्वादशाधिक-राज्येभ्यः आगताः विद्वांसः विषयस्य विविध-पक्षान् विशदं करिष्यन्ति। एतेषु देशेषु मॉरीशस, नीदरलैण्ड, फीजी, संयुक्त-अमेरिका-राज्याः (यूएसए), यूनाइटेड किङ्गडम् (यूके), आयरलैण्ड, नॉर्वे, स्वीडेन, थाईलैण्ड, श्रीलङ्का तथा नेपाल इत्यादयः सम्मिलिताः सन्ति। संगोष्ठ्यां भारतस्य उत्तरप्रदेशः, दिल्ली, उत्तराखण्डः, पश्चिमबङ्गालः, ओडिशा, तमिलनाडुः, आन्ध्रप्रदेशः, केरळः, राजस्थानम्, गुजरातः, पंजाबः, मध्यप्रदेशः, बिहारः, हिमाचलप्रदेशः इत्यादि राज्येभ्यः आगताः विशेषज्ञ-विद्वांसः सहभागं करिष्यन्ति।
____________________
हिन्दुस्थान समाचार