Enter your Email Address to subscribe to our newsletters



मेरठ, 13 जनवरीमासः (हि.स.)। अद्य स्वामी–समर्पणानन्द–वैदिक–शोध–संस्थानेन गुरुकुल–प्रभात–आश्रमे राष्ट्रीय–वैदिक–शोधसंगोष्ठी आयोजिता। अस्यां संगोष्ठ्यां “वेदेषु विश्वराष्ट्र–निर्माणस्य सूत्राणि” इति विषये विविध–विश्वविद्यालयानां महाविद्यालयानां च प्रख्यातैः विद्वद्भिः शोध–पत्राणि प्रस्तुतानि। संगोष्ठी त्रिषु सत्रेषु तथा द्वयोः समानान्तर–सत्रेषु आयोजिताऽभवत्। सर्वादौ गुरुकुलस्य ब्रह्मचारिण: मंगलाचरणं विधाय स्वागतगीतेन समागतानां स्वागतम् अकुर्वन्। तत: परं चन्दनार्चनेन, मालया, नारिकेल-प्रावारप्रदानेन च समेषां विदुषां स्वागतं गुरुकुलान्तेवासिन: कृतवन्तः ।
तदनन्तरम् अपेक्सविश्वविद्यालयस्य कुलपति: प्रो.सोमदेवशतांशु: वाक्पुष्पै: समेषां स्वागतं व्याहरन् प्रास्ताविकम् प्रस्तुतवान्। उद्घाटन–सत्रस्य अध्यक्षः दिल्ली–विश्वविद्यालयस्य हिन्दू–अध्ययन–केन्द्रस्य निदेशकः प्रोफेसर ओमनाथ–विमली–महोदयः आसीत्।
विषय–प्रस्तावनां प्रो.राजेश्वर–प्रसाद–मिश्र: अकरोत्।
अस्यां संगोष्ठ्यां अपेक्स–विश्वविद्यालयः, दिल्ली–विश्वविद्यालयः, जामिया–मिलिया–विश्वविद्यालयः, कुरुक्षेत्र–विश्वविद्यालयः, हेमवती–नन्दन बहुगुणा–विश्वविद्यालयः, हिमाचल–प्रदेश–केन्द्रीय–विश्वविद्यालयः, इलाहाबाद–विश्वविद्यालयः, महर्षि–दयानन्द–विश्वविद्यालयः, श्री–लाल–बहादुर–शास्त्री–राष्ट्रीय संस्कृत–विश्वविद्यालयः, एमिटी–विश्वविद्यालयः, संपूर्णानन्द–संस्कृत–विश्वविद्यालयः तथा चौधरी–चरण–सिंह विश्वविद्यालयस्य च विद्वांस: स्वोपस्थित्या संगोष्ठीमिमां सफलां कृतवन्त:।
कार्यक्रमस्य अन्ते गुरुकुल–प्रभात–आश्रमस्य कुलाधिपतय: पूज्या: श्रीस्वामी–विवेकानन्द–सरस्वती–महाभागा: स्वीय-आशीर्वचोभि: अवदन् यत् वेद–ज्ञानस्य प्रति श्रद्धा–भावः परमावश्यकः।
अतः दैवी–शक्तयः संगठिताः भवन्तु, आसुरी–शक्तीनां च पराभवः भवतु। अन्ते च गुरुकुलस्य मन्त्री प्रो.वाचस्पतिमिश्र: सर्वेभ्य: समागतेभ्य: धन्यवादान् अयच्छत्। एवम् एषा राष्ट्रीय–वैदिक–शोधसंगोष्ठी सफलतया सम्पन्ना।
---------------
Hindusthan Samachar / अंशु गुप्ता