Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे कठोपनिषदि प्रसिद्धं संस्कृत-श्लोकं उद्धृत्य आत्मजागरणस्य, परिश्रमस्य तथा लक्ष्ये दृढतायाः सन्देशं दत्तवान्।
प्रधानमन्त्रिणा एक्स-माध्यमे श्लोकः साझीकृतः —
“उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति॥
अस्य श्लोकस्य अर्थः अस्ति — हे मानवाः, उत्तिष्ठत, जाग्रत, च श्रेष्ठं लक्ष्यं प्राप्य ज्ञानं लभध्वम्। एषः मार्गः सुकरः न भवति, अपि तु क्षुरस्य तीक्ष्णधारावद् अत्यन्तं कठिनः अस्ति। तथापि अस्मिन् एव कठिनमार्गे गत्वा सफलता आत्मबोधश्च प्राप्यते।
प्रधानमन्त्रीणा विशेषतया युवजनान् प्रति आह्वानं कृतम् यत् ते आव्हानैः न विचलन्तु, किन्तु कठिनपरिश्रमेन, अनुशासनेन, निरन्तरप्रयासेन च स्वप्नान् साकारयन्तु। प्रधानमन्त्री उक्तवान् यत् राष्ट्रनिर्माणे युवानां भूमिका सर्वाधिकं महत्त्वपूर्णा अस्ति, तथा एते प्रेरकविचाराः तेषां अग्रे गन्तुं शक्तिं प्रयच्छन्ति।
---------------
हिन्दुस्थान समाचार