Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी विकसितभारत-युव-नेतृसंवादे यूनः देशस्य रचनात्मक-शक्तेः केन्द्रं निरूप्य, विषय-वस्तु-निर्माणम् (कन्टेन्ट्), सर्जनशीलता, आगामि-संतति-सुधाराः तथा भारतीय-सांस्कृतिक-विरासतं वैश्विक-मञ्चे अग्रे नेतुं आह्वानं कृतवान्।
प्रधानमन्त्रिणा एक्स-माध्यमे कृतासु विभिन्नासु पोस्ट्सु उक्तं यत् गतएकादश-वर्षेषु देशस्य सर्वेषु क्षेत्रेषु सम्भावनानाम् अनन्तद्वाराणि उद्घाटितानि सन्ति। सः विषय-वस्तु-निर्माणस्य सर्जनशील-क्षेत्रस्य च उल्लेखं कृत्वा अवदत् यत् युवानः रामायण-महाभारतयोः प्रेरकाः कथाः अपि क्रीडा-जगतः (गेमिङ्-वर्ल्ड्) अङ्गं कर्तुं शक्नुवन्ति। हनुमान् इव पात्राणि समग्रायाः वैश्विक-गेमिङ्-उद्योगस्य दिशां दर्शयितुं समर्थानि सन्ति।
प्रधानमन्त्री उक्तवान् यत् आगामि-पीढी-सुधाराणां यः क्रमः आरब्धः आसीत्, सः इदानीं रिफॉर्म्-एक्सप्रेस् इति रूपं प्राप्तवान् अस्ति, यस्य केन्द्रे देशस्य युवा-शक्तिः एव वर्तते।
अन्यस्मिन् पटले प्रधानमन्त्री अवदत् यत् दास्य-मानसिकतायाः बहिः निर्गत्य देशेन स्वां विरासतां स्वान् विचारांश्च अग्रे नेतव्यम्। सः अपि अवदत् यत् स्वामी-विवेकानन्दस्य जीवनम् अपि युवभ्यः एतदेव सन्देशं ददाति।
---------------
हिन्दुस्थान समाचार