Enter your Email Address to subscribe to our newsletters

-स्नेहमूर्तिः श्रीमती राजम्मा निधनंगता
बेंगलुरूः, 13 जनवरीमासः (हि.स.)।
राष्ट्रसेविका-समितेः प्रमुखसंचालिका वन्दनीया शान्तक्का-जी-मातुः श्रीमती राजम्मा-जी नाम्न्याः मङ्गलवासरे प्रातः षड्-वादने अर्धे (६.३०) कर्नाटकप्रदेशस्य बेंगलूरु-नगरे षट्शताधिक-शतवर्षीयायाः (१०६) वयसि निधनम् अभवत्।
श्रीमती राजम्मा-जी-जीवनं त्यागसेवाराष्ट्रभक्तीनां सजीवः प्रतीकः आसीत्। समितेः कार्यकर्तॄणां प्रति तस्याः सदा स्नेहः मार्गदर्शनं च आशीर्वादश्च प्राप्तः। सा स्वीयं सम्पूर्णं स्त्रीधनं स्वातन्त्र्य-आन्दोलनाय समर्पितवती, ततः परं जीवनपर्यन्तं कदापि सुवर्णाभरणानि न धारितवती। तस्याः एषः त्यागमयः आचारः न केवलं परिवाराय, अपि तु समाजायापि प्रेरणास्रोतः अभवत्।
तया दत्ताः संस्काराः तस्याः पुत्रपुत्रीः समाजराष्ट्रसेवायाः पथि अग्रसरान् कर्तुं प्रेरितवन्तः। तस्याः ज्येष्ठः पुत्रः श्री नागराज-जी राष्ट्रीय-स्वयंसेवक-संघस्य प्रचारकः अस्ति। द्वितीयः पुत्रः श्री मंजुनाथ-जी तथा तस्य धर्मपत्नी सुमाजी गृहस्थाश्रमस्य आदर्शं निर्वहन्तौ जीवनं सार्थकं कुर्वन्तौ स्तः। तस्याः पुत्री वन्दनीया शान्तक्का-जी राष्ट्रसेविका-समितेः प्रमुखसंचालिका-रूपेण स्वदायित्वान् कुशलतया निर्वहति। श्रीमती राजम्मा-जी-जीवनं आगामिनां संततीनां कृते सदा प्रेरणास्रोतः भविष्यति।---------------------
हिन्दुस्थान समाचार