आईआईटी खड़गपुरस्य प्रो. अभिजीत मुखर्जये अंतरराष्ट्रियः ‘एप्लाइड हाइड्रोजियोलॉजी पुरस्कारः’
खड़गपुरम्, 13 जनवरीमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थाने खड्गपुरस्थिते भूविज्ञानभूभौतिकीविभागे वरिष्ठः प्रख्यातः च प्राध्यापकः अभिजीतमुखर्जिः अन्तरराष्ट्रीयमञ्चे भारतस्य मानं वर्धितवान्। सः प्रतिष्ठितया अन्तरराष्ट्रीयया संस्थया इंटरनेशनल् एसोसिए
प्रख्यात प्रोफेसर अभिजीत मुखर्जी


खड़गपुरम्, 13 जनवरीमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थाने खड्गपुरस्थिते भूविज्ञानभूभौतिकीविभागे वरिष्ठः प्रख्यातः च प्राध्यापकः अभिजीतमुखर्जिः अन्तरराष्ट्रीयमञ्चे भारतस्य मानं वर्धितवान्। सः प्रतिष्ठितया अन्तरराष्ट्रीयया संस्थया इंटरनेशनल् एसोसिएशन् ऑफ् हाइड्रोजियोलॉजिस्ट्स इत्येतया वर्षे द्विसहस्रपञ्चविंशतितमे एप्लाइड् हाइड्रोजियोलॉजी अवॉर्ड इति सम्मानेन सम्मानितः अभवत्। अस्य सम्मानस्य प्राप्तौ सः प्रथमः भारतीयवैज्ञानिकः अभवत्।एतत् प्रतिष्ठितं पुरस्कारं ऑस्ट्रेलियादेशस्य मेलबर्ननगरे आयोजिते भव्ये अन्तरराष्ट्रीयसमारोहे मंगलवासरे प्रदत्तम्। यूनाइटेड् किंगडमस्थितेया इंटरनेशनल् एसोसिएशन् ऑफ् हाइड्रोजियोलॉजिस्ट्स नाम्ना संस्था विश्वस्य सर्वाधिका भूजलविशेषज्ञसंस्था इति मन्यते यस्य जालं पञ्चत्रिंशदधिकशतदेशेषु विस्तृतम् अस्ति। सा संस्था प्रतिवर्षं तस्मै वैज्ञानिकाय एतत् सम्मानं ददाति यः भूजलप्रबन्धने जलसंसाधनानां सततउपयोगे च वैश्विकजलसंकटस्य निवारणे च उल्लेखनीयं व्यावहारिकं च योगदानं कृतवान् भवति।संस्थया निर्गते प्रशस्तिपत्रे प्राध्यापकः अभिजीतमुखर्ज्यः उत्कृष्टः शिक्षाविद् शोधकर्ता च वैश्विकदृष्टिसम्पन्नः वैज्ञानिकः इति वर्णितः तस्य कार्याणां विशेषप्रशंसा च कृता अस्ति। आईएएच संस्थानुसारं प्राध्यापकमुखर्ज्यस्य अनुसन्धानं विशेषतः न्यूनमध्यमआयदेशेषु विद्यमानानां गम्भीराणां भूजलसम्बद्धसमस्यानां विषये केन्द्रितम् आसीत् येषां समाधानैः कोटीनां जनानां जीवनं सकारात्मकतया प्रभावितम्। तस्य अनुसन्धानकार्यस्य प्रभावः केवलं शैक्षणिकक्षेत्रे एव न सीमितः अपि तु नीतिनिर्माणे जलप्रबन्धनयोजनासु च व्यापकतया दृष्टः।प्राध्यापकः मुखर्ज्यः भूजलप्रदूषणे आर्सेनिकादिविषधातुसमस्यायां तथा हाइड्रोजियोकेमिकलप्रक्रियासु कृतैः अनुसन्धानेन अन्ताराष्ट्रियस्तरे सुप्रसिद्धः अस्ति। तस्य कार्यं सुरक्षितपेयजलस्य उपलब्धौ पर्यावरणीयसन्तुलनस्य संरक्षणे च अत्यन्तं महत्त्वपूर्णं मन्यते।उल्लेखनीयम् अस्ति यत् प्राध्यापकः अभिजीतमुखर्ज्यः पूर्वमपि अनेकैः प्रतिष्ठितैः राष्ट्रीयैः अन्ताराष्ट्रियैः च सम्मानेन सम्मानितः। वर्षे द्विसहस्रचतुर्दशे भारतसरकारया राष्ट्रपतेः करकमलेन तस्मै राष्ट्रियभूविज्ञानपुरस्कारः प्रदत्तः। ततः वर्षे द्विसहस्रविंशतितमे विज्ञानक्षेत्रस्य सर्वोच्चसम्मानरूपेण प्रसिद्धः शान्तिस्वरूपभटनागरपुरस्कारः अपि तस्मै अर्पितः। अतिरिच्य सः जियोलॉजिकल् सोसाइटी ऑफ् अमेरिका तथा अमेरिकन् जियोफिजिकल् यूनियन इत्येतयोः उभयोः संस्थयोः फेलो पदे चयनितः प्रथमः भारतीयवैज्ञानिकः अपि अस्ति या च उपलब्धिः ऐतिहासिकी मन्यते।प्राध्यापकस्य मुखर्ज्यस्य अस्यां उपलब्धौ भारतीयप्रौद्योगिकीसंस्थानखड्गपुरप्रशासनं हर्षं व्यक्त्वा तस्मै हार्दिकां बधाईम् अयच्छत्। संस्थानप्रशासनं स्वीयवक्तव्ये अवदत् यत् एषः सम्मानः केवलं संस्थानस्य न अपि तु सम्पूर्णदेशस्य गौरवविषयः अस्ति। अनेन भारतीयभूविज्ञानस्य पर्यावरणानुसन्धानस्य जलसंसाधनप्रबन्धनस्य च क्षेत्रे वैश्विकस्तरे नूतना पहचान प्राप्ता भविष्यति।संस्थानं विश्वासं व्यक्तवद् यत् प्राध्यापकमुखर्ज्यस्य एषा उपलब्धिः आगामिनां वैज्ञानिकानां शोधार्थिनां च वैश्विकसमस्यानां समाधानाय प्रेरणास्रोतः भविष्यति।-------------

हिन्दुस्थान समाचार