Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 13 जनवरीमासः (हि.स.)।उत्तराखण्डराज्यस्य बालिकानां अण्डर १५ सब् जूनियर रग्बी दलः राष्ट्रिय रग्बी प्रतियोगितायां सहभागितां कर्तुं ओडिशाराज्यस्य भुवनेश्वरनगरं प्रति मङ्गलवासरे रुड़की रेलस्थानकात् प्रस्थितः। क्रीडिकानां उत्साहेन आत्मविश्वासेन च परिपूर्णः अयं क्षणः क्रीडाप्रेमिणां हृदयानि हर्षेण पूरितवान्।
अस्मिन् अवसरे उत्तराखण्ड रग्बी संघस्य प्रदेशाध्यक्षः सूर्यकान्त सैनी, उत्तराखण्ड रग्बी एसोसिएशनस्य कोषाध्यक्षः एवं प्रशिक्षकः आयुष सैनी, साहिल नेगी, फिटनेस प्रशिक्षकः आकाश सिंह नेगी तथा वासु विशेषरूपेण उपस्थिताः आसन्। सर्वैः पदाधिकारीभिः प्रशिक्षकैश्च दलाय शुभाशयाः प्रदत्ताः तथा हरीध्वजप्रदर्शनेन दलः प्रेषितः।
उपस्थिताः गणमान्यजनाः क्रीडिकानां मनोबलं वर्धयन्तः तेषां उज्ज्वलभविष्यस्य तथा उत्कृष्टप्रदर्शनस्य कामनां अकुर्वन्। सम्पूर्णं प्रदेशं एताभिः कन्याभिः उत्तमक्रीडाप्रदर्शनस्य तथा पदकविजयस्य महतीं आशां वहति। उत्तराखण्डस्य एताः कन्याः सम्पूर्णेन उत्साहेन क्रीडाङ्गणे अवतरिष्यन्ति, तासां सामर्थ्यं देशः स्पष्टतया द्रक्ष्यति।
---------------
हिन्दुस्थान समाचार