Enter your Email Address to subscribe to our newsletters


नवदिल्ली, १४ जनवरीमासः (हि.स.)।दिल्ली–नगरस्य मुख्यमन्त्री श्रीमती–रेखा–गुप्ता बुधवासरे मकर–सङ्क्रान्ति–पर्वणि अत्र ग्रामे नाङ्गल–रायायाम् आयोजिते कार्यक्रमे ८१ नव–आयुष्मान–आरोग्य–मन्दिराणि दिल्लीवासिभ्यः समर्पितवती। एतेषां नूतन–केन्द्राणां शुभारम्भेन दिल्ली–नगरे सञ्चालितानां आयुष्मान–आरोग्य–मन्दिराणां आहत्य–संख्या ३१९ अभवत्। मुख्यमन्त्री स्थानीय–आयुष्मान–आरोग्य–मन्दिरे उपलब्धानां विविध–स्वास्थ्य–सुविधानां विस्तृतं निरीक्षणं कृतवती। सा ओ.पी.डी.–कक्षं, प्रयोगशालाम्, औषध–वितरण–कक्षम्, टीकाकरण–एककं, तथा मातृ–शिशु–सेवा–केन्द्राणि निरीक्ष्य व्यवस्थायाः गुणवत्ता–कार्यप्रणालीं च अवगतवती। तया चिकित्सकैः, पैरामेडिकल–कर्मचारिभिः च सह संवादं कृत्वा तेषां कार्य–अनुभवं रोगिण: प्रति प्रदीयमाना: सेवाः च सम्यक् ज्ञाताः।
मुख्यमन्त्री स्वास्थ्य–अभिलेख–प्रणालीम् अपि समीक्ष्य रोगिणां पञ्जीकरण–प्रक्रियां, वैद्यकीय–अभिलेख–व्यवस्थापनं, तथा दत्तांश–प्रबन्धन–प्रक्रियां विस्तरेण अवगता। तया अधिकारिणः निर्देशिताः यत् अभिलेख–प्रणाली पूर्णतया पारदर्शिनी, सम्यक्, सुलभा च स्थापनीया। अस्मिन् अवसरे हरि–नगर–विधानसभा–सदस्यः श्री–श्याम–शर्मा तथा अन्ये बहवः विशिष्ट–जनाः उपस्थिताः आसन्।मुख्यमन्त्री अवदत् यत् मकर–सङ्क्रान्ति–लोहडी–पर्वणो: पावन अवसरे ८१ नव–आयुष्मान–आरोग्य–मन्दिराणां समर्पणं सर्वकारस्य कृते विशेष–सन्तोषस्य विषयः अस्ति। पूर्व–सर्वकाराणां कार्यकाले स्वास्थ्य–संरचनायाः उपेक्षया अनेकाः चिकित्सालय–परियोजनाः वर्षान्तरं यावत् अपूर्णाः स्थिताः। वर्तमान–सर्वकार: तान् सर्वान् पारदर्शितया नियत–प्रक्रियानुसारं सम्पूर्णान् करिष्यति। सा अवदत् यत् केन्द्रीय–सर्वकार: दिल्ली–नगरे स्वास्थ्य–आधारभूत–संरचनायाः विस्ताराय निरन्तरं सहाय्यं करोति। तस्यैव अन्तर्गतं नव–आयुष्मान–आरोग्य मन्दिराणि, प्रयोगशालाः, स्वास्थ्य–अवसंरचनाः च विकसिताः सन्ति। गत एकादश–मासेषु दिल्ली–सर्वकारेण ३१९ आयुष्मान–आरोग्य–मन्दिराणि, जन–औषधि–केन्द्राणि, पञ्च महाचिकित्सालयेषु नव–खण्डाः, डायलिसिस–यन्त्र–स्थापनम्, सर्वेषां सर्वकारी–चिकित्सालयानां डिजिटलकरणं च सम्पन्नम्। अधुना दिल्ली–नगरे सरकारी–चिकित्सालयेषु रोगिणः मोबाइल–दूरभाषेण ओ.पी.डी.–अनुमतिं, वैद्यकीय–अभिलेखान् च प्राप्तुं शक्नुवन्ति, येन स्वास्थ्य–सेवायां पारदर्शिता सुविधा च सुनिश्चिते भवतः।
मुख्यमन्त्री अवदत् यत् आयुष्मान–भारत–योजनायाः अन्तर्गतं दिल्ली–नगरे षट्–लक्षाधिकाः नागरिकाः पञ्जीकृताः सन्ति,तथा सहस्रशः कुटुम्बानां निःशुल्क–चिकित्सायाः लाभः लब्धः। ई.डब्ल्यू.एस.–वर्गस्य चिकित्सा–आय–सीमा २.५–लक्ष–रूप्यकात् ५–लक्ष–रूप्यकपर्यन्तं वर्धिता। सा सविश्वासम् उक्तवती यत् आयुष्मान–आरोग्य–मन्दिराणां एषः विस्तारः महाचिकित्सालयेषु भारं न्यूनं करिष्यति, नागरिकेभ्यः गृहस्य समीपे सुलभाः, निःशुल्काः, सम्मानजनकाः प्राथमिक–स्वास्थ्य–सेवाः उपलब्धाः करिष्यति। “विकसित–भारत”–दृष्ट्या “विकसित–दिल्ली”–निर्माणं सर्वकारस्य दृढ–संकल्पः अस्ति। सर्वकारस्य वक्तव्ये उक्तं यत् आयुष्मान–आरोग्य–मन्दिरेषु चिकित्सक–सेवाः, अनुभवी–नर्सिंग–कर्मचारिणः, प्रायः ८० प्रकारकाः निदान–परीक्षाः, आवश्यक–औषध–निःशुल्क वितरणम्, मातृ–शिशु–स्वास्थ्य–सेवाः, टीकाकरणम्, वृद्धि–निरीक्षणम्, मानसिक–स्वास्थ्य–सेवाः, पोषण–परामर्शः, डे–केयर चिकित्सा इत्यादयः सुविधाः उपलब्धाः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता