मुख्यमन्त्री नीतीश–कुमारः मकर–संक्रान्त्यां प्रदेशवासिभ्यः शुभाशया: प्रदत्तवान्
पटनानगरम्, १४ जनवरीमासः (हि.स.)। मकर–संक्रान्तेः पावन–अवसरे मुख्यमन्त्री नीतीश–कुमारः राज्यवासिभ्यः हार्दिक–शुभाशया: प्रदत्तवान्। स्वीय–सन्देशे मुख्यमन्त्री उक्तवान् यत् एतत् पर्व सर्वेषां जीवने सुखं, शान्तिं, समृद्धिं च आनयतु—एषा एव कामना अस्ति।
Nitish kumar

मुख्यमन्त्री पुनः उक्तवान् यत् “मकर–संक्रान्त्याः अवसरः सर्वेभ्यः हार्दिक–अभिनन्दनं शुभाशयांश्च अर्पयामि। मम कामना अस्ति यत् अयं पर्वः सर्वेषां कृते सुखं, शान्तिं, समृद्धिं च आनयतु। यूयं सर्वे हर्षोल्लासेन, परस्पर–स्नेहेन, सौहार्देण च उत्सवं आचरन्तु।”

मुख्यमन्त्री प्रदेशवासिभ्यः अपि आवाहनं कृतवान् यत् ते सर्वे मिलित्वा शान्तिपूर्णे सौहार्दपूर्णे च वातावरणे अस्य उत्सवस्य पालनं कुर्वन्तु।

हिन्दुस्थान समाचार / अंशु गुप्ता