Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १४ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य बुधवासरे माघ–बिहू–उत्तरायण–पोंगल–पर्वणाम् अवसरे प्रदेशवासिभ्यः शुभाशया: प्रेषितवान्, तथा च कामनाम् अकरोत् यत् एतानि पर्वाणि सर्वेषां जीवने सुखं, समृद्धिं, नव–ऊर्जाम्, उत्साहं च सञ्चारयन्तु।मुख्यमन्त्री डॉ.यादवः सामाजिक–माध्यमे “एक्स” इत्यत्र लेखं प्रकाश्य अवदत् यत् राष्ट्रीय–एकात्मतायाः कृषि–संस्कृतेः च प्रतीकानि माघ–बिहू–भोगी–उत्तरायण–पोंगल–पर्वाणि भवन्ताम्। सर्वेभ्यः हार्दिक–अभिनन्दनं शुभाशयाश्च अर्पयामि। मम कामना अस्ति यत् एतानि पावन–पर्वाणि सर्वेषां जीवने सुख–शान्तिं, सद्भावनां, धन–धान्यं च आनयन्तु, सर्वेषु गृहेषु प्राङ्गणेषु च सौख्यं वर्धयन्तु, तथा च अस्माकं कृषक–भ्रातॄन् भगिनीश्च समृद्धान् कुर्वन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता