गंगासागरे मकर संक्रांतौ लक्षं श्रद्धालवः आस्थायाः अवगाहनम् अकरोत्
कोलकाता, 14 जनवरीमासः (हि.स.)। मकरसङ्क्रान्तिपर्वणि अद्य प्रभाते गङ्गासागरे लक्षाधिकाः श्रद्धालवः आस्थया स्नानं कृत्वा पुण्यं अर्जितवन्तः। त्रेतायुगकाले स्वर्गात् अवतीर्णा गङ्गा सागरतीरे स्थितस्य कपिलमुनेः आश्रमस्य समीपे भस्मीकृतान् राज्ञः सगरस्य ष
गंगासागर


कोलकाता, 14 जनवरीमासः (हि.स.)। मकरसङ्क्रान्तिपर्वणि अद्य प्रभाते गङ्गासागरे लक्षाधिकाः श्रद्धालवः आस्थया स्नानं कृत्वा पुण्यं अर्जितवन्तः। त्रेतायुगकाले स्वर्गात् अवतीर्णा गङ्गा सागरतीरे स्थितस्य कपिलमुनेः आश्रमस्य समीपे भस्मीकृतान् राज्ञः सगरस्य षष्टिसहस्रान् पुत्रान् स्पृष्ट्वा यस्मिन् शुभे मुहूर्ते मोक्षं दत्तवती, तस्मिन्नेव शुभमुहूर्ते शताब्द्यः आरभ्य गङ्गासागर-स्नानस्य परम्परा प्रचलिता अस्ति।

पुण्यस्नानस्य शुभमुहूर्ते देशविदेशेभ्यः आगतैः तीर्थयात्रिकैः गङ्गासागरे महती जनसञ्चितिḥ दृश्यते। राज्यसरकारया अद्यावधि कोऽपि आधिकारिकः सङ्ख्याङ्कः न प्रकाशितः, तथापि अनुमानं क्रियते यत् प्रायः पञ्चदशलक्षं जनाः आस्थया स्नानं कृतवन्तः।

कपिलमुनेः आश्रमस्य महन्तः ज्ञानदासः अवदत् यत् अद्य बुधवासरे रात्रौ नववादनं एकोनविंशतिमिनिटे सूर्यः मकरराशौ प्रवेशं करिष्यति। तदनन्तरं पुण्यस्नानस्य आरम्भः भविष्यति, यः गुरुवासरस्य अपराह्णे एकवादनं विंशतिमिनिटपर्यन्तं प्रवर्तिष्यते। अत एव मुख्यतया गुरुवासरस्य प्रातःकाले मकरसङ्क्रान्तेः पुण्यस्नानं अधिकं भविष्यति।

श्रद्धालवः बुधवासरस्य प्रभाते षड्वादने एव गङ्गासागर-सङ्गमे स्नानं आरब्धवन्तः। सुदृढसुरक्षाव्यवस्थायाः मध्ये प्रभाते एव श्रद्धालवः स्वस्वशिबिरेभ्यः निर्गत्य सङ्गमतटं प्राप्तवन्तः तथा गङ्गासागरयोः मिलनस्थले श्रद्धया स्नानं कृतवन्तः। पुलिसदलैः, नागरिकरक्षाबलैः, गृहरक्षकैः सह नौसेनातटरक्षकबलयोः अपि दशसहस्राधिकाः जवानाः नियोजिताः सन्ति। अधिकारिणां अनुमानानुसारं प्रायः त्रिंशल्लक्षाधिकाः श्रद्धालवः गङ्गासागरं प्राप्तवन्तः।

हिन्दुस्थान समाचार