Enter your Email Address to subscribe to our newsletters

महोबा, 14 जनवरी शमासः (हि.स.)।
उत्तरप्रदेशराज्यस्य महोबाजनपदे स्थितस्य धौंसामन्दिरस्य समीपे अवस्थिते गोपालसागरे मकरसंक्रान्तिपर्वणः उपलक्ष्ये मङ्गलवासररात्रौ दीपदानकार्यक्रमः आयोजितः अभवत्। तत्र बहुसंख्यकाः श्रद्धालवः हर्षोल्लासेन सहभागी अभवन्, दीपप्रकाशेन च सरोवरं सम्यक् जगमगायितम्।
जनपदस्य कुलपहाडतहसीलाक्षेत्रे स्थितं ऐतिहासिकं धौंसामन्दिरं बुन्देलजनानां आस्थायाः केन्द्ररूपेण प्रसिद्धम् अस्ति। मन्दिरस्य महन्तः श्यामा शरण देवाचार्यः अवदत् यत् विभिन्नतीर्थस्थलेभ्यः जलं आनीय अस्मिन् सरोवरे विसृष्टम् अस्ति। तेन अस्य जले स्नानमात्रेण जनानां नूतनऊर्जसः अनुभवः भवति, रोगेभ्यः अपि मोक्षः लभ्यते।
मकरसंक्रान्तिपर्वणि अत्र स्नानस्य महान् महिमा अस्ति। मकरसंक्रान्त्यां खिचडीभोजनस्य आयोजनं भविष्यति, तेन सह भव्यदङ्गलस्य अपि आयोजनं करिष्यते, यस्य सर्वाः सिद्धताः सम्पूर्णाः कृताः सन्ति।
---------------
हिन्दुस्थान समाचार