उपराज्यपालः , उत्तरी सेना कमांडर सशस्त्र बल वयोवृद्ध दिवसे पूर्व सैनिकेभ्यो अददाद्वर्धापनानि
जम्मूः, 14 जनवरीमासः(हि.स.)। जम्मू–कश्मीरस्य उपराज्यपालः मनोजः सिन्हा तथा उत्तरी-सेनायाः सेनापतिः लेफ्टिनेंट्-जनरल् प्रतीकः शर्मा च बुधवासरे सशस्त्र-बल-वयोवृद्ध-दिवसस्य अवसरॆ पूर्वसैनिकेभ्यः शुभाशयान् अयच्छताम्। सिन्हा-महोदयः पूर्वसैनिकानां प्रति
उपराज्यपाल , उत्तरी सेना कमांडर ने सशस्त्र बल वयोवृद्ध दिवस पर पूर्व सैनिकों को बधाई दी


जम्मूः, 14 जनवरीमासः(हि.स.)।

जम्मू–कश्मीरस्य उपराज्यपालः मनोजः सिन्हा तथा उत्तरी-सेनायाः सेनापतिः लेफ्टिनेंट्-जनरल् प्रतीकः शर्मा च बुधवासरे सशस्त्र-बल-वयोवृद्ध-दिवसस्य अवसरॆ पूर्वसैनिकेभ्यः शुभाशयान् अयच्छताम्। सिन्हा-महोदयः पूर्वसैनिकानां प्रति कृतज्ञतां व्यक्तवान् तथा सशस्त्र-बलानां शूरपुरुषाणां वीरनारीणां च शौर्यं ससम्मानं अभिनन्दितवान्।

उपराज्यपाल-कार्यालयेन ‘एक्स’ माध्यमे प्रकाशिते सन्देशे उक्तं यत्— “अहं वीरनारीणां तथा पूर्वसैनिकानां परिवारजनानां प्रति स्वीयां गभीरां कृतज्ञतां व्यक्तये।” एवमेव उत्तरी-कमान्डेन ‘एक्स’ माध्यमे प्रकाशिते सन्देशे अवदत् यत् प्रतीकः शर्मा तथा उत्तरी-कमान्डस्य सर्वे अधिकारी-कर्मचारिणः च २०२६ वर्षस्य दशम-सशस्त्र-बल-वयोवृद्ध-दिवसस्य अवसरॆ सर्वान् पूर्वसैनिकान्, तेषां परिवारान् तथा वीरनारीः (ये रक्षाकर्मिणां पत्न्यः सन्ति, ये देशार्थं स्वजीवनं अर्पितवन्तः) हार्दिकैः शुभाशयैः अभिनन्दन्ति।

सिन्हा दिनस्य उत्तरभागे दशमी-सशस्त्र-बल-पूर्वसैनिक-दिवस-रैलीं सम्बोधितुं अपि गमिष्यति। भारतीय-सेनया तु मङ्गलवासरे सीमावर्ती-जनपदे राजौरी-स्थाने द्विदिवसीय-पूर्वसैनिक-यात्रया सह दशम-सशस्त्र-बल-पूर्वसैनिक-दिवसस्य उत्सवस्य शुभारम्भः कृतः, यस्मिन् देशस्य पूर्वसैनिकानां सेवां बलिदानं च सम्मानयितुं राष्ट्रस्य दृढसंकल्पः पुनः प्रतिपादितः।

हिन्दुस्थान समाचार