इंदौरस्य परिचयः तदीया संघर्षशील जनता, अदम्यसाहसेन विकासशीलचिंतनेन च वर्तते - मुख्यमंत्री डॉ. यादवः
- मुख्यमंत्री पेयजल व्यवस्था सुदृढ़ीकर्तुम् इंदौराय दत्तः 800 कोटिरुप्यकेभ्योऽधिकस्य उपहारः इंदौरम्, 14 जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डा मोहनयादवः अवदत् यत् इन्दौरनगरं निरन्तरं प्रगतिविकासनवाचारयोः दिशायां अग्रे गच्छति। अद्य इन्दौर
इंदौर में मकर संक्रांति के अवसर पर आयोजित कार्यक्रम


इंदौर में मकर संक्रांति के अवसर पर आयोजित कार्यक्रम


इंदौर में मकर संक्रांति के अवसर पर आयोजित कार्यक्रम


- मुख्यमंत्री पेयजल व्यवस्था सुदृढ़ीकर्तुम् इंदौराय दत्तः 800 कोटिरुप्यकेभ्योऽधिकस्य उपहारः

इंदौरम्, 14 जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डा मोहनयादवः अवदत् यत् इन्दौरनगरं निरन्तरं प्रगतिविकासनवाचारयोः दिशायां अग्रे गच्छति। अद्य इन्दौरः देशस्य अत्यन्तं शीघ्रविकासमानं नगरं जातम्। विकासे, स्वच्छतायाम्, उद्योगे, व्यापारक्षेत्रे तथा सुशासनस्य क्षेत्रे इन्दौरेण स्वकीया विशिष्टा पहचान निर्मिता, यस्यां समग्रं मध्यप्रदेशं गौरवं अनुभवति। इन्दौरस्य पहचान तस्य संघर्षशीलजनता, अदम्यउत्साहः, विकासोन्मुखी च चिन्तनमेव। अद्य प्रदेशस्य प्रत्येकं जनपदं इन्दौरवत् भवितुम् इच्छति। सः अवदत् यत् कठिनकाले सरकारः, नगरनिगमः, प्रशासनं च सम्पूर्णसंवेदनशीलतया प्रतिबद्धतया च नागरिकैः सह स्थित्वा सर्वसम्भवाः प्रयासाः कृतवन्तः।

मुख्यमंत्री डा यादवः बुधवासरे इन्दौरे मकरसंक्रान्त्यवसरे आयोजितं कार्यक्रमं सम्बोधितवान्। अस्मिन् अवसरः सः नगरस्य पेयजलव्यवस्थां सुदृढां, आधुनिकां, दीर्घकालिकसमाधानयुक्तां च कर्तुं स्वच्छजलाभियानस्य अन्तर्गतं अमृत 2.0 इन्दौरजलप्रदाययोजना (पैकेज् 1) अन्तर्गतं अष्टशतकोटिरूप्यकाणाम् अधिकव्ययेन प्रस्तावितस्य बहुप्रतीक्षितस्य जलप्रदायपरियोजनायाः विधिवत् भूमिपूजनं कृतवान्। सः अवदत् यत् भागीरथपुराक्षेत्रे घटिता जलजनिता घटना सर्वान् पीडां प्राप्तवती। अस्यां घटनायां दिवंगतानां नागरिकानां प्रति सः गाढां संवेदनां व्यक्तवान् तथा बाबा महाकालं प्रार्थितवान् यत् सः दिवंगतात्मानः स्वश्रीचरणेषु स्थानं दद्यात्।

मुख्यमन्त्रिणा उक्तं यत् मकरसंक्रान्तिः केवलं पर्व न, अपि तु तिलतिलेन अग्रे गन्तुं संकल्पः। यथा अस्मिन् दिने सूर्यः उत्तरायणं गच्छति प्रकाशश्च वर्धते, तथैव इन्दौरः निरन्तरं प्रगतिविकासनवाचारयोः मार्गे अग्रसरः अस्ति। कठिनसमये सरकारः, नगरनिगमः, प्रशासनं च नागरिकैः सह स्थित्वा संवेदनशीलतया प्रतिबद्धतया च कार्याणि कृतवन्तः। सः स्पष्टशब्दैः अवदत् यत् आपत्कालसमये राजनीतिः कर्तुं इन्दौरः न स्वीकुर्यात्। सकारात्मकः रचनात्मकश्च विपक्षः लोकतन्त्रस्य शक्तिः अस्ति, किन्तु पीडायां राजनीतिः सर्वथा अनुचिता।

नर्मदाजलपरियोजनान् विषये भाषमाणः मुख्यमंत्री अवदत् यत् मालवा-निमाड़क्षेत्रं नर्मदाजलेन संयोजयितुं वर्षाणि यावत् संघर्षः कर्तव्यः आसीत्। सरदारसरोवरबन्धस्य पूर्णतया देशस्य जलसुरक्षां दातुं प्रधानमन्त्रिणः नरेन्द्रमोदीस्य श्रेयः अस्ति। अनेन सिंचनक्षमतायां ऐतिहासिकवृद्धिः अभवत्। अद्य मध्यप्रदेशे षट्पञ्चाशत् लक्षहेक्टेयरात् अधिके क्षेत्रे सिंचनं सम्भवम् अभवत्। नदीसंयोजनापरियोजनानां उल्लेखं कृत्वा सः अवदत् यत् पार्वती–कालीसिन्ध–चम्बलपरियोजना राजस्थानस्य मध्यप्रदेशस्य च कृते वरदानं भविष्यति। केन–बेतवानदीसंयोजनाभियानं पूर्वप्रधानमन्त्रिणः स्वर्गीयस्य अटलविहारीवाजपेयिनः स्वप्नम् आसीत्, यत् अद्य प्रधानमन्त्री मोदीस्य नेतृत्वे साकारं कृतम्। जलजीवनमिशनस्य माध्यमेन प्रत्येकं ग्रामं प्रत्येकं नगरं च शुद्धपेयजलेन संयोजयितुं सरकारस्य दृढः संकल्पः अस्ति। प्रधानमन्त्रिणो मोदिनो मार्गदर्शनेन राज्यसरकारस्य पूर्णसहयोगेन च इन्दौरः आत्मनिर्भरः भूत्वा अग्रे वर्धते।

कार्यक्रमात् पूर्वं मुख्यमन्त्रिणा जीवनदायिन्याः मातुः नर्मदायाः प्रतिमायां माल्यार्पणं कृत्वा पूजनार्चनं कृतम्। सभागृहपरिसरे संविधाननिर्मातुः बाबासाहेब अम्बेडकरस्य तथा स्वरकोकिलायाः लतामंगेशकरस्य प्रतिमासु श्रद्धासुमनानि अपि अर्पितानि।

नगरीयप्रशासनमन्त्री कैलाशविजयवर्गीयः इन्दौरे नर्मदाजलान्दोलनस्य नर्मदाजलप्राप्तेः संघर्षयात्रायाश्च उल्लेखं कृत्वा अवदत् यत् एतत् इन्दौरस्य ऐतिहासिकं जनान्दोलनम् आसीत्। नर्मदाजलपरियोजना केवलं योजना न, अपि तु इन्दौरजनशक्तेः संकल्पस्य च फलम् अस्ति। यदि नर्मदा न आगच्छेत्, तर्हि इन्दौरः अद्य यथारूपेण अस्ति तथा कदापि न अभविष्यत्। स्वच्छतायां इन्दौरस्य गौरवं व्यक्त्वा सः अवदत् यत् अस्य पहचान केवलं विकासेन न, अपि तु नागरिकसहभागितया निर्मिता। रात्रौ अपि नगरशुद्धौ निरताः स्वच्छताकर्मिणः इन्दौरस्य वास्तविकशक्तिः सन्ति। प्रभाते स्वयमेव नागरिकैः गृहात् कचरा वाहनमध्ये स्थापयितुं क्रियमाणं कर्म जनभागीदारीस्य जीवितं उदाहरणम् अस्ति। सः अवदत् यत् इन्दौरः प्रथमं आसीत्, इन्दौरः प्रथमं अस्ति, इन्दौरः प्रथमं एव भविष्यति।

जलसंसाधनमन्त्री तुलसीरामसिलावटः अवदत् यत् प्रधानमन्त्री मोदीना विकसितभारतस्य यः संकल्पः कृतः, सः मुख्यमंत्री डा यादवस्य नेतृत्वे साकारः क्रियते। प्रदेशे विकासकार्याणि शीघ्रगत्या प्रवर्तन्ते, योजनानां लाभः अन्तिमव्यक्तिपर्यन्तं नेतुं सरकारः सम्पूर्णप्रतिबद्धतया कार्यं करोति। एषः विकासः केवलं अधोसंरचनायां न सीमितः, अपि तु शिक्षा, स्वास्थ्य, जलसंसाधन, रोजगारक्षेत्रेषु अपि नूतनान् आयामान् स्थापयति।

महापौरः पुष्यमित्रभार्गवः मुख्यमंत्री डा यादवस्य प्रति कृतज्ञतां व्यक्त्वा अवदत् यत् इन्दौरस्य भविष्यत्पेयजलावश्यकतां सर्वोच्चप्राथमिकतया गृहीत्वा 1100 कोटिरूप्यकाणां योजनां दूरदृष्ट्या 2400 कोटिरूप्यकपर्यन्तं विस्तारितवान्। एषः निर्णयः आगामिदशकानाम् आवश्यकतां दृष्ट्वा कृतः। अद्य भूमिपूजिता परियोजना केवलं निर्माणपर्यन्तं न सीमिता, अपि तु अस्याः अन्तर्गतं दशवर्षाणां संचालनं संधारणं च समाविष्टम् अस्ति। अनेन नगराय दीर्घकालं सुचारुं सुरक्षितं गुणवत्तायुक्तं च पेयजलप्रदायं सुनिश्चितं भविष्यति। परियोजनायाः पूर्णतया इन्दौरस्य वर्तमानभविष्यत्पेयजलावश्यकतायाः प्रभावीपूर्तिः सम्भविष्यति। एषा परियोजना स्वच्छस्य पर्याप्तस्य विश्वसनीयस्य च पेयजलस्य उपलब्धौ मीलस्तम्भः सिद्धा भविष्यति। सः अवदत् यत् संघर्षेण अनुशासनेन जनभागिता च इन्दौरेण स्वकीया पहचान निर्मिता, तथा इन्दौरः प्रथमं आसीत्, अस्ति, भविष्यति च।

कार्यक्रमे विधायकः मधुवर्मा अपि सम्बोधितवान्। अस्मिन् कार्यक्रमे सांसदः शंकरलालवानी, विधायकाः रमेशमेंदोला, गोलूशुक्लः, मालिनीलक्ष्मणसिंहगौड़ो, महेन्द्रहार्डिया, मनोजपटेलः, सुमितमिश्रः, श्रवणचावड़ा, सम्भागायुक्तः डा सुदामखाड़े, पुलिसआयुक्तः सन्तोषकुमारसिंहः, कलेक्टरः शिवमवर्मा, नगरनिगमआयुक्तः क्षितिजसिंघलः, पूर्वमहापौरः कृष्णमुरारिमोघे, प्रतापकरोसिया, महापौरपरिषदस्य सदस्याः अन्ये च जनप्रतिनिधयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार