मध्यप्रदेशः- वेटेरन्स दिवसे अद्य हुतात्मनां परिजनानां भविष्यति सम्माननम्
भोपालम्, 14 जनवरीमासः (हि.स.)। मध्यप्रदेशे पूर्वसैनिकैः अद्य बुधवासरे दशमः सशस्त्रबल-भूतपूर्व-सैनिक-दिवसः आचर्यते।अस्मिन् अवसरे भोपाल-जनपदे निवसतां हुतात्मनां परिजनानां, वीरनारीणां, अलंकृतानां सैनिकानां च सम्मान-समारोहः प्रातः १०.१५ वादने आरभ्य जिल
वेटेरन्स दिवस (प्रतीकात्मक तस्वीर)


भोपालम्, 14 जनवरीमासः (हि.स.)। मध्यप्रदेशे पूर्वसैनिकैः अद्य बुधवासरे दशमः सशस्त्रबल-भूतपूर्व-सैनिक-दिवसः आचर्यते।अस्मिन् अवसरे भोपाल-जनपदे निवसतां हुतात्मनां परिजनानां, वीरनारीणां, अलंकृतानां सैनिकानां च सम्मान-समारोहः प्रातः १०.१५ वादने आरभ्य जिला-सैनिक-कल्याण-कार्यालयस्य विश्रामगृहस्य बाणगंगा-चौराहे स्थिते सभागारे आयोजितः भविष्यति।

कार्यक्रमस्य मुख्य-अतिथिरेयर-वाईज-मार्शल पीके श्रीवास्तवः भविष्यति।सेवानिवृत्तः जिला-सैनिक-कल्याण-अधिकारी कॅप्टन सुमित् सिंहः अवदत् यत् वर्षात् २०१७ आरभ्य प्रतिवर्षं जनवरी-मासस्य चतुर्दशे दिने सशस्त्रबल-भूतपूर्व-सैनिक-दिवसः आचर्यते।

अस्य दिवसस्य उद्देश्यं अस्माकं वीराणां पूर्वसैनिकानां अद्वितीयस्य योगदानस्य सम्मानं कर्तुम् अस्ति, येन समाजे राष्ट्र-रक्षायाः प्रति जागरूकता सम्मान-भावना च वर्धते।कार्यक्रमे पूर्वसैनिकाः वरिष्ठ-पूर्वसैनिकाश्च सम्मानिताः भविष्यन्ति।

हिन्दुस्थान समाचार