Enter your Email Address to subscribe to our newsletters

१४–१८ जनवरीपर्यन्तं “श्री–महाकाल–महोत्सवः” आयोज्यते
भोपालनगरम्, १४ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य बुधवासरे उज्जयिन्यां स्थिते श्री–महाकाल–महालोके पञ्च–दिवसीयस्य “श्री–महाकाल–महोत्सवस्य” शुभारम्भं करिष्यति। अयं महोत्सवः १८ जनवरीपर्यन्तं श्री–महाकाल–महालोकस्य त्रिवेणी–संग्रहालयस्य च प्राङ्गणे कलाया: सङ्गीतस्य, वैचारिक–विमर्शस्य च अनुपमः सङ्गमः भविष्यति।
वीर–भारत–न्यासेन तथा श्री–महाकालेश्वर–मन्दिर–प्रबन्ध- समित्या संयुक्ततया अयं महोत्सवः आयोज्यते। बाबा–महाकालस्य नगरी उज्जयिनी पुनः एकवारं भारतीय–संस्कृतेः, कलाया: अखण्ड–श्रद्धाया: च महोत्सवस्य साक्षिणी भविष्यति।
पञ्चदिनानि सङ्गीत–सरिता प्रवहिष्यति जनसम्पर्क–अधिकारी अनुराग–उइके इत्यनेश कथितम् यत् महोत्सवस्य मुख्य–सभासु देशस्य ख्यातिप्राप्ताः कलाकाराः भगवत: शिवस्य आराधनां स्वीयैः स्वर–लहरीभिः करिष्यन्ति।
१४ जनवरी – प्रथम–दिने सुप्रसिद्धः पार्श्व–गायकः शंकर–महादेवनः स्व–पुत्राभ्यां सिद्धार्थेन शिवेन सह “शिवोऽहम्” इति सङ्गीत–प्रस्तोष्यति।
१५ जनवरी – मुम्बई–नगरात् आगतः प्रसिद्धः “द ग्रेट् इण्डियन क्वायर” “शिवा” विषयकं कार्यक्रमं प्रस्तोष्यति।
१६ जनवरी – सुप्रसिद्धा गायिका सोना–महापात्रा स्वीयया सङ्गीत–यात्रया: दर्शकान् मन्त्र–मुग्धान् करिष्यति।
१७ जनवरी – इन्दौरस्य श्रेयश–शुक्लेन तथा मुम्बई–नगरेण विपिन–अनेजेन स्व–वाद्य–वृन्देन सह सुगम–सङ्गीतस्य प्रस्तुति: भविष्यति।
१८ जनवरी – इण्डोनेशिया–देशात् (कोकोरदा–पुत्रा) श्रीलङ्का–देशात् (अरियारन्ने–कालूराच्ची) च आगताभ्यां दलाभ्यां प्रस्तुतया “शिव–केन्द्रिता नृत्य–नाटिका” इति कार्यक्रमेण महोत्सवस्य समापनं भविष्यति, येन अस्य महोत्सवस्य अन्ताराष्ट्रिय–विस्तारः सूच्यते।
त्रिवेणी–संग्रहालये प्रतिदिनं जनजातीय–संस्कृतेः दर्शनम् महोत्सवे प्रतिदिनं सायं ४–वादनात् ६–वादनपर्यन्तं त्रिवेणी–संग्रहालये मध्यप्रदेशस्य समृद्ध–जनजातीय–संस्कृतेः दर्शनं भविष्यति।
अत्र छिन्दवाड़ायाः भडम, बैतूलस्य ठाट्या, धाराया: भगोरिया, सागरस्य बरेदी इत्यादीनां पारम्परिक–नृत्यानां प्रदर्शनं करिष्यते।
प्रतिदिनं निर्गच्छन्ती “कला–यात्रा” नगरस्य विविध–मार्गेभ्यः गत्वा श्री–महाकाल–लोके समाप्स्यते, यस्यां शिव–बरयात्रा, डमरू–वादनम्, मल्लखम्ब–प्रदर्शनं च आकर्षण–केन्द्रं भविष्यति।
१५ जनवरी–दिने बौद्धिक–विमर्शःसांस्कृतिक–प्रस्तुतिभिः सह १५ जनवरी–दिने प्रातः १०:३० वादने एकस्या: अन्ताराष्ट्रिय–सङ्गोष्ठेः आयोजनं भविष्यति।
तस्य विषयः अस्ति “शिव–तत्त्वं महाकालः च : पुरातिहास–साहित्य–संस्कृति–परिप्रेक्ष्ये” इति निश्चितः अस्ति, यत्र विद्वांसः शिव–तत्त्वस्य दार्शनिक–गाम्भीर्यं विवेचयिष्यन्ति।सर्वे जनाः अस्मिन् भक्तिमये महोत्सवे सहभागितां कर्तुं सादरम् आमन्त्रिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता