मकर संक्रांतौ राजस्थाने महोत्सवस्य आयोजनं, जलप्रासादस्य पाले काइटसमारोहे मुख्यमंत्री उड्डयितवान् पतंगम्
जयपुरम्, 14 जनवरीमासः (हि.स.)। राजस्थाने मकरसंक्रान्ति-पर्वणि बुधवासरे विविधाः धार्मिकाः, सांस्कृतिकाः तथा पर्यटनसम्बद्धाः क्रियाः आयोजिताः अभवन्। जयपुर-नगरे काइट-समारोहस्य २०२६ अवसरे देशीय-विदेशीय-पर्यटकैः पतङ्गोन्नयनस्य विशेषो आनन्दः अनुभूतः।
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, 14 जनवरीमासः (हि.स.)।

राजस्थाने मकरसंक्रान्ति-पर्वणि बुधवासरे विविधाः धार्मिकाः, सांस्कृतिकाः तथा पर्यटनसम्बद्धाः क्रियाः आयोजिताः अभवन्। जयपुर-नगरे काइट-समारोहस्य २०२६ अवसरे

देशीय-विदेशीय-पर्यटकैः पतङ्गोन्नयनस्य विशेषो आनन्दः अनुभूतः। जलमहल-पाल्यां आयोजिते उत्सवे मुख्यमन्त्री भजनलाल-शर्मा उपमुख्यमन्त्री दियाकुमारी-सह पतङ्गं उद्डयितवान्, यदा तु हवामहल-विधानसभा-क्षेत्रस्य विधायकः बाल-मुकुन्दाचार्यः चरखीधारकः दृष्टः।

नगरे मकरसंक्रान्ति-उत्सवस्य उपलक्ष्ये परम्परागताः पतङ्गयुद्ध-प्रतियोगिताः अपि आयोजिताः। मन्दिरेषु विशेषः शृङ्गारः कृतः तथा पतङ्ग-विषयक-सज्जा अपि विधायिता। चौड़ा-रास्ता-स्थिते ताड़केश्वर-महादेव-मन्दिरे पतङ्गैः विशेषा सज्जा कृता, भगवान् तिललड्डूकैः फिणी-भोगेन च समर्पितः। प्रातःकालादेव दर्शनार्थं श्रद्धालूनां महती भीडः समागतवती।

प्रदेशस्य अन्येषु भागेषु अपि उत्सवस्य उल्लासः दृश्यते स्म। टोंक-जनपदस्य आवां-नगरॆ मकरसंक्रान्त्यां परम्परागतः ‘दड़ा’ नामकः क्रीडाविशेषः आयोजितः, यस्मिन् प्रायः अशीतिकिलोग्रामभारयुक्तः पादकन्दुकः प्रयुज्यते। भीलवाड़ा-नगरे अनेके मन्दिराणि अहमदाबाद-नगरात् आनिताभिः बहुवर्णाभिः पतङ्गाभिः अलङ्कृतानि। अत्र सायंकाले भव्यायाः आरतेः अनन्तरं प्रसादरूपेण पतङ्गानां वितरणं भविष्यति।

मकरसंक्रान्ति-पर्वणि जयपुरे सर्वाधिकं पतङ्गोन्नयनं भवति, किन्तु आर्मी-डे-परेडस्य पूर्वतैयार्याः कारणात् नगरस्य प्रायः पञ्च-किलोमीटर-परिधौ पतङ्गोन्नयनं निषिद्धं कृतम्। तथापि पुरातन-नगरे प्रतिवर्षवत् अस्मिन् वर्षेऽपि पतङ्गयुद्ध-प्रतियोगिताः आयोजिताः।

जलमहल-पाल्यां काइट-फेस्टिवलः द्वयोः चरणयोः आयोजितः अस्ति। प्रातःकाले बहुवर्णाः पतङ्गाः उद्डयिताः, सायंकाले तु आतिशबाजी-कार्यक्रमः प्रस्तावितः अस्ति। अस्मिन् उत्सवे बहवः विदेशी-पर्यटकाः अपि सहभागिनः अभवन्।

दान-पुण्यस्य अस्मिन् पर्वणि धार्मिक-आस्था अपि स्पष्टतया दृश्यते स्म। जयपुर-नगरस्य गौशालासु जनैः गवां सेवा कृता, हरित-चारा उष्ण-वस्तूनि च आहाररूपेण दत्तानि। अनाथालयेषु अपि उष्ण-वस्त्राणां आवश्यक-वस्तूनां च दानं कृतम्।

मुख्यमन्त्री भजनलाल-शर्मा मकरसंक्रान्ति-पर्वस्य अवसरॆ सामाजिक-माध्यमे ‘एक्स’ इति मंचे प्रदेशवासिनः शुभाशयान् प्रेषयन् अवदत् यत् सूर्यदेवस्य उत्तरायण-गमनस्य एषः पर्वः सर्वेषां जीवने नूतनां ऊर्जां, उत्तमं स्वास्थ्यं सुख-समृद्धिं च आनयतु, अन्नदातॄणां परिश्रमस्य सम्मानस्य तथा प्रकृतिप्रति कृतज्ञतायाः सन्देशं च प्रसारयतु।

---------------

हिन्दुस्थान समाचार