मकर–सङ्क्रान्तेः सूर्यः आवश्यकतान्वित–जनानां सहाय्यं कर्तुं सन्देशं ददाति – नितिन–नबीनः
नवदिल्ली, १४ जनवरीमासः (हि.स.)।भारतीय–जनता–दलस्य (भा.ज.पा.)राष्ट्रीय–कार्यकारी अध्यक्षः श्रीनितिन–नबीनः बुधवासरे अवदत् यत् मकर–सङ्क्रान्तेः सूर्यः नवज्योतिः, नव-उमङ्गम्, नवोत्साहं च प्रददाति, तथैव आवश्यकतान्वित–जनानां सहाय्यं कर्तुम् अस्मान् प्रेरय
दिल्ली भाजपा पूर्वांचल मोर्चा के मकर संक्रांति उत्सव में राष्ट्रीय कार्यकारी अध्यक्ष नितिन नबीन।


नवदिल्ली, १४ जनवरीमासः (हि.स.)।भारतीय–जनता–दलस्य (भा.ज.पा.)राष्ट्रीय–कार्यकारी अध्यक्षः श्रीनितिन–नबीनः बुधवासरे अवदत् यत् मकर–सङ्क्रान्तेः सूर्यः नवज्योतिः, नव-उमङ्गम्, नवोत्साहं च प्रददाति, तथैव आवश्यकतान्वित–जनानां सहाय्यं कर्तुम् अस्मान् प्रेरयति।

श्रीनितिन–नबीनः अत्र दिल्ली–प्रदेश–भा.ज.पा.–कार्यालय–परिसरेमकर–सङ्क्रान्ति–पर्वणि पूर्वाञ्चल–मोर्चा-इत्यनया आयोजिते सहभोज–कार्यक्रमे सम्बोधनं कुर्वन् एतत् वक्तव्यं दत्तवान्। अस्मिन् अवसरे भा.ज.पा.–दिल्ली–प्रदेश–अध्यक्षः श्री–वीरेन्द्र–सचदेवा, पूर्वाञ्चल–मोर्चा–अध्यक्षः श्री–सन्तोष–ओझा, तथा अन्ये बहवःप्रमुख–नेतारः कार्यकर्तारश्च उपस्थिताः आसन्।

श्रीसचदेवः अवदत् यत् पूर्वाञ्चल–समाजेन मकर–सङ्क्रान्ति–पर्वणि आयोजितः भव्यः कार्यक्रमः तेषां सांस्कृतिक–परम्परां, सामाजिक एकतां तथा उत्साहं स्पष्टतया दर्शयति। मकर–सङ्क्रान्ति–उत्सवः केवलं पर्व न, अपि तु पूर्वाञ्चल–समाजस्य संगठन–शक्तेः सांस्कृतिक–गौरवस्य च प्रतीकः अस्ति।

सः सर्वान् आयोजकान् कार्यकर्तॄन् च कृतज्ञतया स्मृत्वा अवदत् यत्भा.ज.पा. पूर्वाञ्चल–समाजस्य विकासाय, सम्मानाय, अधिकार–संरक्षणाय च पूर्ण–निष्ठया कार्यं करिष्यति। तथा सः अवदत् यतदिल्ली–नगरे भा.ज.पा.–विजयस्य एकः प्रमुखः सूत्रधारः पूर्वाञ्चल–समाजः अपि अस्ति, येन २७ वर्षाणाम् अनन्तरम् भा.ज.पा.–दलस्य सत्तायाम् आगमने महत्त्वपूर्णा भूमिका निर्वहिता।

कार्यक्रमे भा.ज.पा.–राष्ट्रीय–महामन्त्री श्री–अरुण–सिंहः, दिल्ली–विधानसभा–अध्यक्षः श्री–विजेन्द्र–गुप्तः, बिहार–विधानसभा–अध्यक्षः श्री–प्रेम–कुमारः, दिल्ली–राज्य–मन्त्री श्री–प्रवेश–साहिब–सिंहः, पूर्व–केन्द्रीय–मन्त्री श्री–अश्वनी–चौबे, भा.ज.पा.–नेता–गायकः श्री–पवन–सिंहः, सांसदः श्री–मनोज–तिवारी, श्री–योगेन्द्र–चाण्डोलिया, श्रीमती–बांसुरी–स्वराज, देवरिया–सांसदः श्री–शशाङ्क–मणि–त्रिपाठी, नगर- निगम–स्थायी–समिति–अध्यक्षः श्रीमती–सत्या–शर्मा इत्यादयः अनेकाः प्रमुख–नेतारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता