Enter your Email Address to subscribe to our newsletters

कोलकाता, 14 जनवरीमासः (हि.स.)। पश्चिमबङ्गालराज्ये निपा विषाणोः विषयं प्रति चिन्ता वर्धते। उत्तर चतुर्विंशतिपरगणाजनपदे बारासात् नगरे स्थिते एकस्मिन् निजी चिकित्सालये निपा विषाणुना सङ्क्रान्ते द्वे परिचारिके अत्यन्तं गम्भीरावस्थायां वर्तेते। उभेऽपि सम्प्रति वायुसहाययन्त्रे (वेन्टिलेशन) स्थाप्येते।
अस्य विषयस्य प्रसङ्गे केन्द्रीय स्वास्थ्य मन्त्री जेपी नड्डा महोदयः प्रत्यक्षं मुख्यमन्त्री ममता बनर्जी महोदया सह वार्तालापं कृतवान् तथा सर्वप्रकारस्य साहाय्यस्य आश्वासनं दत्तवान्। घटनायाः प्रकाशे आगते राज्यसरकार तत्क्षणमेव सक्रियाभवत्। केन्द्रसरकारया अपि पूर्णसहयोगस्य आश्वासनं प्रदत्तम्।
राज्यकेन्द्रीययोः स्वास्थ्यविभागयोः विशेषज्ञवैद्यैः संयुक्ता दलं बारासात् स्थितं चिकित्सालयं निरीक्षितवन्तः। तत्र च एतद् अपि अन्विष्यते यत् कथं ताः द्वे परिचारिके सङ्क्रान्ते अभवताम् तथा गतदिनेषु केषां केषां जनानां सम्पर्के ताः आसन्। उभयोः परिचारिकयोः परिवारजनाः तथा सम्पर्के आगताः सर्वेऽपि निरीक्षणाधीनाः कृताः सन्ति तथा पृथक्करणे (क्वॉरेंटाइन) स्थापिताः
स्वास्थ्यविभागेन “सम्पर्क-अनुसन्धान” कार्यं तीव्रं कृतम्। ये जनाः उभाभ्यां परिचारिकाभ्यां सह सम्पर्के आसन् तेषां परिचयः कृतः, नमूनानि गृहीतानि च, तथा सर्वे पृथक्वासे निवसन्तु इति निर्देशः दत्तः।
राज्यस्वास्थ्यविभागस्य एकः अधिकारी बुधवासरस्य प्रभाते अस्य पुष्टिं कृत्वा अवदत् यत् आपत्कालीनस्थितेः निवारणाय कोलकातानगरस्य बेलियाघाटा संक्रामकरोग चिकित्सालयः पूर्णतया सज्जः अस्ति। तत्र दश आपत्कालीन शय्याः तथा वार्डेषु अष्टषष्टिः शय्याः सज्जीकृताः सन्ति। वायुसहायव्यवस्थापि सुनिश्चिताऽस्ति।
चिकित्सालयस्य रोगिकल्यानसमितेः सदस्यः स्वपन समाद्दारः अवदत् यत् निपा विषाणोः विषये गोष्ठ्यः सम्पन्नाः सन्ति तथा सर्वाः आवश्यकताः सिद्धाः कृताः सन्ति। सः जनान् आह्वयति यत् भयभीता न भवन्तु, किन्तु पूर्णां सावधानतां पालयन्तु। अधखादितं फलं न खादन्तु, फलरसविक्रयशालाभ्यः दूरीं पालयन्तु, तथा फलं उष्णजलेन प्रक्षाल्य एव उपयुञ्जीरन्।
सूत्राणां अनुसारं, उभे सङ्क्रान्ते परिचारिके किञ्चित् दिनपूर्वं पूर्वबर्धमानजनपदे कटवा नगरे अपि गतवत्यौ। तत्र यैः जनैः सह तयोः सम्पर्कः अभवत् तेषां सूची सज्जीकृता भवति। अद्यावधि अष्टचत्वारिंशत् जनाः परिचिताः कृताः सन्ति तथा सर्वेषां स्वास्थ्यस्थितिः निरीक्ष्यते। सम्पूर्णस्य विषयस्य निरीक्षणाय स्वास्थ्यभवनतः विशेषदलम् गठितम् अस्ति तथा मानककार्यप्रणाली अपि निर्मीयते। मुख्यमन्त्री ममता बनर्जी स्वयमेव सम्पूर्णे घटनाक्रमे दृष्टिं धारयति। राज्यसरकार जनान् अपीलं करोति यत् अनावश्यकः भयः न प्रसार्यताम्, अपितु सतर्काः भवन्तु। अस्य कृते सहायता-दूरवाणी क्रमाङ्कः अपि घोषितः।
निपा विषाणुः कथं प्रसार्यते
चिकित्सकानां मतानुसारं निपा विषाणोः मुख्यः स्रोतः चमगादड़ाः भवन्ति। चमगादड़ैः खादितैः अधखादितैः फलैः माध्यमेन अयं विषाणुः प्रसारं गच्छति। कदाचित् सङ्क्रान्तव्यक्तिना प्रयुक्तैः वस्तुभिः अपि सङ्क्रमणस्य सम्भावना भवति।
जनस्वास्थ्यविशेषज्ञाः वदन्ति यत् प्रारम्भिककाले अस्य लक्षणानि सामान्यरूपेण दृश्यन्ते, यथा ज्वरः, श्वासकष्टम्, शिरोवेदना, उदरविकारः, दुर्बलता, अल्पभोजनरुचिः च। एतेषु लक्षणेषु दृष्टेषु तत्क्षणमेव वैद्यं सम्पर्केत।
विशेषज्ञाः अपि अवदन् यत् निपा विषाणुः शीघ्रं न प्रसार्यते, किन्तु अस्य मृत्युदरः अत्यन्तं उच्चः अस्ति, यः चत्वारिंशत् प्रतिशततः पञ्चसप्ततिपर्यन्तं भवितुम् अर्हति। अतः हस्तौ साबुनेन पुनः पुनः प्रक्षालयेत्, फलशाकानि सम्यक् शुद्धीकृत्य खादेत्, तथा अधखादितफलानि वा ताजरसं त्यजेत्—एतत् अत्यावश्यकम्।
हिन्दुस्थान समाचार