Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 जनवरीमासः(हि.स.)।
अद्य प्रधानमन्त्री नरेन्द्रमोदी देशवासिनः प्रति मकरसङ्क्रान्त्याः शुभाशयाः प्रदत्तवान्। अद्य देशस्य सर्वत्र पवित्रेषु सरोवरेषु, कूपेषु, नदिषु च स्नानार्थं जनानां महती भीड् दृश्यते। भगवान् रामस्य तपोभूमिः चित्रकूटे स्थितेषु धार्मिकस्थलेषु अपि जनाः मकरसङ्क्रान्तिपूजायाः पूर्वं स्नानं कुर्वन्ति।
प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः व्हाट्स्ऐप् माध्यमेन सन्देशं लिखितवान्—
“सर्वेभ्यः देशवासिभ्यः मकरसङ्क्रान्त्याः असीमाः शुभाशयाः। तिलगुडयोः माधुर्येण परिपूर्णः भारतीयसंस्कृतेः परम्परायाः च अयं दिव्यः अवसरः सर्वेषां जीवनं प्रसन्नतया, सम्पन्नतया, सफलतया च पूरयतु। सूर्यदेवः सर्वेषां कल्याणं करोतु।”
मकरसङ्क्रान्त्याः अवसरॆ चित्रकूटस्य भरतकूपे पञ्चदिवसीयस्य मॆलस्य आरम्भः अभवत्। चित्रकूटस्य रामघाटे प्रातःकालादेव स्नानार्थिनां विशालः जनसमूहः एकत्रितः अस्ति। भरतकूपे पञ्चतीर्थानां पवित्रजलेन स्नानस्य विशेषा मान्यता अस्ति। रामचरितमानसस्य अयोध्याकाण्डस्य चौपायी—
“भरतकूप अब कहिहहिं लोगा, अतिपावन तीरथ जल योगा।
प्रेम सनेम निमज्जत प्राणी, होईहहिं विमल कर्म मन वाणी॥”
इति भरतकूपस्य माहात्म्यं बोधयति।
चित्रकूटे प्रभुः श्रीरामः वनवासकाले आगतवान् आसीत्। तदा भरतः अयोध्यायाः जनैः सह भ्रातरं रामं प्रत्याहर्तुं अत्र आगतः आसीत्। सः राज्याभिषेकाय सर्वतीर्थानां जलं अपि सह आनयत्। भगवान् श्रीरामः चतुर्दशवर्षपर्यन्तं वनवासाय दृढप्रतिज्ञः आसीत्। अयोध्यां प्रतिगमनं राज्याभिषेकं च अस्वीकार्य भरतः निराशः अभवत्, ततः श्रीरामस्य आदेशेन सः सर्वतीर्थजलं सामग्रीं च कूपे विसर्जितवान्। तस्मात् कालात् अस्य कूपस्य नाम “भरतकूपः” इति प्रसिद्धम् अभवत्।
मकरसङ्क्रान्त्याः दिने मन्दाकिनीतटे रामघाटे, सूर्यकुण्डे, भरतकूपे, वाल्मीकि-आश्रम-लालापुरे, साईपुरे, पालेश्वरनाथपर्वते, मन्दाकिनी-यमुनासङ्गमस्थले कनकोटायाम्, तुलसीजन्मस्थले राजापुरे, परानूबाबा-बर्गढे, शबरीजलप्रपाते, मार्कण्डेयाश्रमे च जनाः स्नानार्थं समागताः सन्ति।
---------------
हिन्दुस्थान समाचार