प्रधानमन्त्री नरेन्द्र-मोदी श्वः राष्ट्रमण्डल-देशानां लोकसभा-अध्यक्षाणां सम्मेलनस्य उद्घाटनं करिष्यति
नवदिल्ली, १४ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी श्वः राष्ट्रमण्डल-देशानां लोकसभा-अध्यक्षाणां तथा पीठासीन-अधिकारिणाम् अष्टाविंशतितमस्य सम्मेलनस्य उद्घाटनं करिष्यति। एषः कार्यक्रमः संसद-भवन-परिसरे स्थिते संविधान-सदने केन्द्रीय-कक्षे आयोज
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, १४ जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र-मोदी श्वः राष्ट्रमण्डल-देशानां लोकसभा-अध्यक्षाणां तथा पीठासीन-अधिकारिणाम् अष्टाविंशतितमस्य सम्मेलनस्य उद्घाटनं करिष्यति। एषः कार्यक्रमः संसद-भवन-परिसरे स्थिते संविधान-सदने केन्द्रीय-कक्षे आयोजितः भविष्यति। अस्मिन् अवसरे प्रधानमन्त्रिणः संबोधनम् अपि भविष्यति।

प्रधानमन्त्री-कार्यालयस्य अनुसारं, सम्मेलनस्य अध्यक्षता लोकसभा-अध्यक्षः ओम्-बिरला करिष्यति। अस्मिन् सम्मेलने द्विचत्वारिंशत् राष्ट्रमण्डल-देशानां तथा चतुर्णाम् अर्ध-स्वायत्त-संसदानाम् आहत्य एकषष्टिः वक्तार: पीठासीन-अधिकारिणश्च भागं ग्रहीष्यन्ति।

सम्मेलने समकालीन-संसदीय-विषयेषु विस्तृतः विचार-विमर्शः करिष्यते। तेषु सुदृढ-लोकतान्त्रिक-संस्थाः निर्माणे स्पीकराणां पीठासीन-अधिकारिणां च भूमिका, संसदीय-कार्यप्रणाल्यां कृत्रिम-बुद्धिमत्तायाः उपयोगः, सांसदेषु सामाजिक-माध्यमानां प्रभावः, संसद-विषये जन-जागरूकता-वर्धनाय नवाचाराः, तथा मतदानात् परं नागरिक-सहभागितां प्रोत्साहयितुं रणनीतयः प्रमुखतया अन्तर्भवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता