पोंगल-पर्वणि प्रधानमन्त्री नरेन्द्र-मोदी तमिल-यूनां सतत-कृष्याः पालनाय आह्वानं कृतवान्
नव-दिल्ली, १४ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी पोंगल-पर्वणः अवसरे तमिल-यूनां सतत-कृष्याः अंगीकाराय तथा पर्यावरण-अनुकूल-कृषौ अग्रणी-भूमिकां निर्वहणाय आह्वानं कृतवान्। सः अवदत् यत् कृषिः एवं विकसितव्या—यया स्थाली पूर्णा भवेत्, कोष: अपि
पीएम नरेन्द्र मोदी


नव-दिल्ली, १४ जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र-मोदी पोंगल-पर्वणः अवसरे तमिल-यूनां सतत-कृष्याः अंगीकाराय तथा पर्यावरण-अनुकूल-कृषौ अग्रणी-भूमिकां निर्वहणाय आह्वानं कृतवान्। सः अवदत् यत् कृषिः एवं विकसितव्या—यया स्थाली पूर्णा भवेत्, कोष: अपि पूर्ण: भवेत्, धरित्री च सुरक्षिताऽस्तु।

प्रधानमन्त्रिणा प्रकृति-संरक्षणम्, जल-प्रबन्धनम्, प्राकृतिक-कृषिः, कृषि-प्रौद्योगिकी (एग्रीटेक्) तथा मूल्य-वर्धनम् (वैल्यू-एडिशन्) अग्रिम-काले अत्यावश्यकानि इति निर्दिष्टानि। सः यूनां प्रति एतेषु क्षेत्रेषु नवाचार-सहितं अग्रे गन्तुम् आग्रहं कृतवान्।

प्रधानमन्त्री नरेन्द्र-मोदी बुधवासरे नव-दिल्ली-नगरे केन्द्रीय-मन्त्री एल-मुरुगन-महोदयस्य आवासे आयोजिते पोंगल-समारोहे सहभागं कृतवान्। अस्मिन् अवसरे सः पारम्परिक-अनुष्ठानानि अकरोत्, गो-सेवां च अकरोत्, उपस्थितजनान् च सम्बोधितवान्।

स्व-सम्बोधनॆ सः पोंगल-पर्व वैश्विक-पर्वरूपेण वर्णयन् अवदत् यत् एषः उत्सवः कृषकाणां, धरित्र्याः तथा सूर्यस्य प्रति कृतज्ञतायाः प्रतीकः अस्ति, अपि च प्रकृति-परिवार-समाजयोः मध्ये सन्तुलनस्य सन्देशं ददाति।

प्रधानमन्त्रिणा उक्तं यत् तमिल-संस्कृतिः न केवलं भारतस्य, अपि तु सम्पूर्ण-मानवतायाः परम्परा अस्ति। पोंगलादि-पर्वाणि “एक-भारत-श्रेष्ठ-भारत” इति भावनां सुदृढां कुर्वन्ति।

तिरुक्कुरल-ग्रन्थे कृषि-कृषकयोः महत्त्वस्य उल्लेखं कृत्वा सः अवदत् यत् कृषकाः राष्ट्र-निर्माणस्य सुदृढ-स्तम्भाः सन्ति, तेषां प्रयासैः आत्मनिर्भर-भारत-अभियानाय नूतन-शक्ति: लभते।

प्रधानमन्त्रिणा “मिशन-लाइफ”, “एकः वृक्षः मातुः नाम्ना”, “अमृत-सरोवर:”, “प्रति-बिन्दुः अधिकं शस्यम्” इत्यादि-अभियानानाम् उल्लेखः कृतः। सः अवदत् यत् अग्रिमवंशाय भूमेः जलस्य च संरक्षणम् अत्यावश्यकम् अस्ति।

तमिलनाडु-राज्ये प्राकृतिक-कृषौ संलग्न-यूनां प्रयासान् प्रशंसन् प्रधानमन्त्री नरेन्द्र-मोदी तमिल-यून: प्रति सतत-कृषि-अभियानस्य अधिक-विस्ताराय आह्वानं पुनः कृतवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता