राष्ट्रपतिः १५–१६ जनवरी–दिने पंजाब–राज्ये राजस्थान–राज्ये च प्रवासं करिष्यति
नवदिल्ली, १४ जनवरीमासः (हि.स.)।भारतस्य राष्ट्रपतिः श्रीमती द्रौपदी–मुर्मु १५ तथा १६ जनवरी–दिने पंजाब–राज्ये राजस्थान–राज्ये च आधिकारिक–प्रवासे भविष्यति। राष्ट्रपति–भवनस्य बुधवासरे निर्गत–वक्तव्यस्य अनुसारं, १५ जनवरी–दिने राष्ट्रपतिः अमृतसर–नगरे स्थ
राष्ट्रपति द्रौपदी मुर्मु (फाइल फोटो)


नवदिल्ली, १४ जनवरीमासः (हि.स.)।भारतस्य राष्ट्रपतिः श्रीमती द्रौपदी–मुर्मु १५ तथा १६ जनवरी–दिने पंजाब–राज्ये राजस्थान–राज्ये च आधिकारिक–प्रवासे भविष्यति। राष्ट्रपति–भवनस्य बुधवासरे निर्गत–वक्तव्यस्य अनुसारं, १५ जनवरी–दिने राष्ट्रपतिः अमृतसर–नगरे स्थितस्य गुरु–नानक–देव–विश्वविद्यालयस्य ५०–तमस्य वार्षिक–दीक्षान्त–समारोहस्य शोभां वर्धयिष्यति।

१६ जनवरी–दिने राष्ट्रपतिः जालन्धर–नगरे स्थिते डाॅ.भीमराव आम्बेडकर–राष्ट्रीय–प्रौद्योगिकी संस्थाने २१–तमस्य दीक्षान्त–समारोहस्य मुख्य–अतिथिरूपेण सहभागं करिष्यति। ततः परं सा जयपुर–नगरे रामानन्द–मिशन– संस्थया आयोजिते १००८–कुण्डीय हनुमान–महायज्ञे अपि उपस्थिता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता