राष्ट्रपतिः द्रौपदी मुर्मुः 16 जनवरी तमे दिनाङ्के एक दिवसीयभ्रमणे राजस्थानमागमिष्यति
जयपुरम्, 14 जनवरीमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः १६ जनवरीदिने एकदिवसीय यात्रायै राजस्थानं आगमिष्यन्ति। राष्ट्रपतिः मध्याह्ने १ वादन ४० निमेषे जयपुर अन्ताराष्ट्रिय विमानस्थानं प्राप्स्यन्ति, ततः सडकममार्गेण मध्याह्ने २ वादन १० निमेषे लोकभव
राष्ट्रपति द्रौपदी मुर्मु


जयपुरम्, 14 जनवरीमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः १६ जनवरीदिने एकदिवसीय यात्रायै राजस्थानं आगमिष्यन्ति। राष्ट्रपतिः मध्याह्ने १ वादन ४० निमेषे जयपुर अन्ताराष्ट्रिय विमानस्थानं प्राप्स्यन्ति, ततः सडकममार्गेण मध्याह्ने २ वादन १० निमेषे लोकभवनं गमिष्यन्ति।

राष्ट्रपति सचिवालयस्य अनुसारं राष्ट्रपतिः अपराह्ने ३ वादन ५० निमेषे लोकभवनात् प्रस्थानं करिष्यन्ति तथा च ४ वादन २० निमेषे नींदड़ हाउसिंग स्कीम हरमाड़ा इत्यत्र आगमिष्यन्ति, यत्र रामानन्द मिशनेन आयोजite १००८ कुण्डीय हनुमान महायज्ञे भागं ग्रहिष्यन्ति।

ततः अनन्तरं राष्ट्रपतिः सायं ५ वादन ५० निमेषे जयपुर विमानस्थानात् दिल्ली नगरं प्रति प्रस्थानं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार