Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 जनवरीमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः बुधवासरे राष्ट्रपति भवनस्य आयोजिते एकस्मिन् समारोहे त्रयाणां देशानां राजदूतैः समर्पितानि तेषां परिचयपत्राणि स्वीकारवती।
राष्ट्रपतिभवनस्य सूचनानुसारं परिचयपत्रं समर्पयितॄणां मध्ये त्रिनिदाद् तथा टोबैगो देशस्य उच्चायुक्तः चन्द्रदत्तः सिंहः, ऑस्ट्रिया देशस्य राजदूतः डॉ. रॉबर्ट् ज़िशगः, तथा अमेरिकादेशस्य राजदूतः सर्जियो गोरः च आसन्।
अस्मिन् अवसरे राष्ट्रपति महोदया सर्वान् राजदूतान् सस्नेहं स्वागतवती तथा तेषां कार्यकालाय शुभाशयान् अपि प्राददात्।
---------------
हिन्दुस्थान समाचार