पोंगल–उत्सवः - मदुरै जनपदे जल्लीकट्टु–प्रतियोगितायाः सज्जा प्रचलति, मुख्यमन्त्री स्टालिनः अपि सहभागं करिष्यति
मदुरैनगरम्, १४ जनवरीमासः (हि.स.)। तमिलनाडु–राज्यस्य मदुरै–नगरे पोंगल–पर्वणि गुरुवार–दिवसात् विश्व–प्रसिद्धाः अवनियापुरम्, पालमेडु, अलंगानल्लूर इत्येषुपरम्परागताः जल्लीकट्टु–प्रतियोगिताः आयोजिताः भविष्यन्ति।एतेषां आयोजनानां कृते जनपद–प्रशासनं नगर–नि
फ़ाइल छवि


मदुरैनगरम्, १४ जनवरीमासः (हि.स.)। तमिलनाडु–राज्यस्य मदुरै–नगरे पोंगल–पर्वणि गुरुवार–दिवसात् विश्व–प्रसिद्धाः अवनियापुरम्, पालमेडु, अलंगानल्लूर इत्येषुपरम्परागताः जल्लीकट्टु–प्रतियोगिताः आयोजिताः भविष्यन्ति।एतेषां आयोजनानां कृते जनपद–प्रशासनं नगर–निगमश्चयुद्ध–स्तरेण व्यापक–सज्जां कुर्वन्ति।

तमिल–सौर–पञ्चाङ्गस्य ताई–मासस्य प्रथम–दिने पोंगल–पर्वणि१५ जनवरी दिने अवनियापुरम-इत्यत्र १६ जनवरी दिने पालमेड-इत्यत्र, तथा १७ जनवरी दिने अलंगानल्लूरे परम्परागताः जल्लीकट्टु–प्रतियोगिताः आयोज्यन्ते।

१६ जनवरी दिने पालमेड-इत्यत्र आयोजितायां प्रतियोगितायांतमिलनाडु–राज्यस्य उप–मुख्यमन्त्री उदयनिधि–स्टालिनःसहभागं करिष्यति, १७ जनवरी दिने अलंगानल्लूरे आयोजितायां प्रतियोगितायां मुख्यमन्त्री एम.के. स्टालिनः उपस्थितः भविष्यति।

पोंगल–पर्वस्य अन्तर्गतं मदुरायाम् आयोज्यमानायाः प्रथमायाः जल्लीकट्टु–प्रतियोगितायाः— अवनियापुरम–जल्लीकट्टु–कार्यक्रमस्य अन्तिम–चरण–सज्जा तीव्रतया प्रचलति।

मदुरै–नगर–निगमेन प्रायः ६७ लक्ष–रूप्यकाणाम् व्ययेन प्रतियोगिता–स्थले मञ्च–निर्माणम्,वृषभाणां स्वास्थ्य–परीक्षणाय विशेष–स्थान–व्यवस्था, प्रतियोगितायां भागं गृह्णतां वृषभाणां क्रम–नियोजनाय अवरोधक–वेष्टन–बाड़–निर्माणम्, तथा अवनियापुरम्–तिरुपरंकुन्द्रम्–मार्गम् उभयतः लौहेन निर्मितानां बैरिकेड-इत्येतेषां स्थापना च कृता।

इदानीं यावत् सज्जा–कार्यस्य ९० प्रतिशतं सम्पन्नम् अस्ति। वृषभाणां क्रीडकानां च सुरक्षां प्रधानं कृत्वा क्षेत्रे नारिकेल–तन्तु–विस्तरणम्, वृषभ–संग्रहाय विशेष–क्षेत्र–व्यवस्था, अन्ये च सुरक्षात्मक–उपायाः शीघ्रं सम्पद्यन्ते।

तथैव नगर–निगमेन पेय–जल–व्यवस्था, चल–शौचालय–व्यवस्था,अन्याश्च आवश्यक–सुविधाः अपि प्रदीयन्ते। गत–वर्षस्य तुलनायाम्अस्मिन् वर्षे अधिक–संख्यायां वृषभान् क्षेत्रे प्रवेषणम् उद्दिश्य नूतनः “तल्लुवाडी–वाडीवासलः” निर्मितः, यस्य वर्ण–लेपन–कार्यम् अद्यापि प्रचलति।

मदुरै–जनपदे आयोजितः अवनियापुरम–जल्लीकट्टुः विश्व–प्रसिद्धः अस्ति। एतां परम्परागतां प्रतियोगितां द्रष्टुं न केवलं स्थानिक–जनाः, अपि तु देश–विदेशेभ्यः अपि लक्षाधिकाः दर्शकाः मदुरै–नगरम् आगच्छन्ति, येन सम्पूर्ण–प्रदेशे उत्सव–सदृशं वातावरणं दृश्यते।

उल्लेखनीयम् अस्ति यत् जल्लीकट्टुः पोंगल–उत्सवस्य अविभाज्यः अङ्गः अस्ति तथा तमिलनाडु–प्रदेशे प्राचीन–कालात् एव वृषभ–वश–करणस्य परम्परागतः क्रीडा–प्रकारः आसीत्।

इतिहासकाराणां मते जल्लीकट्टोः आरम्भः ईसा–पूर्व–४०० तः ईसा–पूर्व–१०० वर्ष–पर्यन्तं काल–खण्डे अभवत्। भारतदेशे अस्या: क्रीडायाः “आयर” इति नाम्ना प्रसिद्धः समुदायः परम्परया आचरति स्म। “जल्ली” (रजत–स्वर्ण–मुद्राः) तथा “कट्टु” (बन्धनम्) इत्येतयोः शब्दयोः संयोगात् “जल्लीकट्टु” इति नाम्नः उत्पत्तिः अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता