Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १४ जनवरीमासः (हि.स.)। उत्तर–प्रदेशस्य मुख्यमन्त्रीश्री–योगी–आदित्यनाथः मकर–सङ्क्रान्ति–कृशर–पर्वयोः पावन–अवसरे प्रदेशवासिभ्यः हार्दिकाः शुभेच्छाः च प्रेषितवान्। बुधवासरे स्वीय–शुभेच्छा–सन्देशे मुख्यमन्त्री अवदत् यत् मकर–सङ्क्रान्तिः भारतस्य प्राचीन–सांस्कृतिक–परम्पराणां महत्त्वपूर्णं पर्व अस्ति, यत् देशस्य विविधेषु राज्येषु भिन्न–भिन्न–नामभिः परम्पराभिः च श्रद्धया उत्साहेन च आचर्यते।
मुख्यमन्त्री योगी अवदत् यत् तमिलनाडु–राज्ये अस्य नाम पोंगल,आन्ध्र–प्रदेशे तथा तेलङ्गाना–राज्ये सङ्क्रान्तिः, असम–राज्ये माघ–बिहुः, पञ्जाब–हरियाणा–राज्ययोः लोहडी, गुजरात–राज्ये उत्तरायणम्, महाराष्ट्र–राज्ये तिल–सङ्क्रान्तिः, तथा उत्तर–प्रदेशे बिहार–राज्ये च कृशरा–पर्व इति प्रसिद्धम्।
एषा विविधता भारतस्य सांस्कृतिक–एकतां तथा सामाजिक–समरसतां सुदृढतया अभिव्यञ्जयति। मुख्यमन्त्री अवदत् यत् मकर–सङ्क्रान्ति–पर्वणि सूर्यदेवः धनु–राशेः मकर–राशौ प्रवेशं कृत्वा उत्तरायणः भवति। भारतीय–संस्कृतेः दृष्ट्या सूर्यस्य उत्तरायण–गमनं शुभता, सकारात्मकता नव–चेतनायाः च प्रतीकम् अस्ति।
एतत् परिवर्तनम् अन्धकारात् प्रकाशं प्रति, जडतायाः कर्मशीलतां प्रति, नकारात्मकतायाः सकारात्मक–ऊर्जां प्रति अग्रसरितुं प्रेरयति। मुख्यमन्त्री अवदत् यत् मकर–सङ्क्रान्ति–माघ–मासयोः पावन–अवसरे प्रयागराजे आयोजितेमाघ–मेले लक्षाधिकाः श्रद्धालवः पवित्रे त्रिवेणी–सङ्गमे स्नानं कृत्वा आस्थायाः निमज्जनं करिष्यन्ति। प्रयागराजेन सह प्रदेशस्य विविधेषु जनपदेषु पवित्र–नदीषु स्नानम्, दान–पुण्यम्, पूजा–अर्चनं च अस्य पर्वणः विशेषं महत्त्वं वहति, येन सामाजिक–सद्भावः, सेवा–भावना, लोक–कल्याण–चेतना च सुदृढा भवति।
अन्ते मुख्यमन्त्री प्रदेशवासिनः आवाहयत् यत् ते मकर–सङ्क्रान्ति–कृशरा–पर्वणि परम्परागत–श्रद्धया, परस्पर–सौहार्देन, सामाजिक–उत्तरदायित्वेन च आचरन्तु, तथा प्रदेशस्य समृद्ध–सांस्कृतिक–परम्पराणां अधिकं सशक्तीकरणे सहभागिनः भवन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता