इन्दौरस्य भागीरथपुरा-क्षेत्रे “स्वास्थ्यवर्धन” अभियानम् अनुवर्तते, त्रिषु दिनेषु षोडश-सहस्राधिक-जनानां परीक्षणं सम्पन्नम्
इन्दौरनगरम्, १४ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य इन्दौर-नगरे भागीरथपुरा–प्रभावित–क्षेत्रे मङ्गलवासरे स्वास्थ्य–विभागस्य १८७ सदस्यैः गृहं–गृहं गत्वा सर्वेक्षणं कृतम्। रात्रौ विलम्बित–कालपर्यन्तं प्रवृत्ते अस्मिन् सर्वेक्षणे स्त्रीणां बालकानां च स्वा
भागीरथपुरा में सघन स्वास्थ्य वर्धन अभियान


इन्दौरनगरम्, १४ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य इन्दौर-नगरे भागीरथपुरा–प्रभावित–क्षेत्रे मङ्गलवासरे स्वास्थ्य–विभागस्य १८७ सदस्यैः गृहं–गृहं गत्वा सर्वेक्षणं कृतम्। रात्रौ विलम्बित–कालपर्यन्तं प्रवृत्ते अस्मिन् सर्वेक्षणे स्त्रीणां बालकानां च स्वास्थ्य–परीक्षणं कृतम्। रक्तचाप–परीक्षा, शर्करा–परीक्षा, रक्ताल्पता–(एनीमिया)–परीक्षा च सम्पन्ना।

गत–त्रिषु दिनेषु समग्रतया १६,२०८ नागरिकाणां परीक्षणं कृतम्, यस्मिन् २७८ जनाः उच्च–रक्तचाप–पीडिताः, १६१ जनाः मधुमेह–पीडिताश्च चिन्हिताः। तेभ्य: स्वास्थ्य–पत्रकं प्रदत्तम्, तथा च अग्रिम–परीक्षणाय स्वास्थ्य–केन्द्रेषु गमनार्थं परामर्शः अपि दत्तः।

भागीरथपुरा–प्रभावित–क्षेत्रे मङ्गलवासरे ओपीडी–विभागे १०९ रोगिणः आगताः, येषु ५ जनाः अतिसार–(डायरिया)–पीडिताः आसन्। कश्चन अपि अन्यत्र प्रेषितः नाभवत्। अद्य भागीरथपुरा–क्षेत्रस्य निवासिभ्यः स्वास्थ्य–पत्रकं वितरितम्, येषु तेषां स्वास्थ्य–सूचकाङ्कानां विवरणं दत्तम् अस्ति।

आशा–कार्यकर्तृभिः जनाः उपदिष्टाः यत् जलम् उष्णीकृत्य एव पिबेयुः, तथा च यदि औषध–उपचारः प्रचलति, तर्हि औषधीनां मात्रा पूर्णतया स्वीकर्तव्या।

जिलाधिकारी शिवम्–वर्मा अवदत् यत् क्षेत्रे द्वे एम्बुलेन्स–याने स्थापिते स्त:, तथा च २४×७ चिकित्सकानां सेवाः नियुक्ताः सन्ति। “स्वास्थ्यवर्धन–अभियानस्य” अन्तर्गतं मङ्गलवासरे उपचारः, परामर्शः, परीक्षणं च कृतम्, येन जनाः स्वं सुरक्षितं सहजं च अनुभूतवन्तः।

जनाः अपि अवदन् यत् स्वास्थ्य–पत्रक–माध्यमेन स्वीय–स्वास्थ्य–सूचकाङ्कानां, स्वास्थ्य–स्तरस्य च स्पष्टा सूचना लभ्यते। दलदत्तेन परामर्शेन जनाः जानीयुः यत् केन प्रकारेण जीवन–शैली स्वीकर्तव्या, येन स्वयम्, परिवारः, समाजश्च स्वस्था: भवितुं शक्नुवन्ति।

वस्तुतः इन्दौरनगरस्य भागीरथपुरा–क्षेत्रे दूषित–जल–आपूर्तेः कारणात् अद्यपर्यन्तं २३ जनाः मृताः। दूषित–जलपानात् शताधिकाः जनाः रोगग्रस्ताः अभवन्, किन्तु जनपद–प्रशासनस्य प्रयत्नैः जनानां स्वास्थ्ये क्रमशः परिवर्तनं दृश्यते।

वर्तमानकाले चिकित्सालयेषु ३३ रोगिणः चिकित्सायां सन्ति, येषु ८ रोगिणः आईसीयू–विभागे उपचाररताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता