Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ जनवरीमासः (हि.स.)।केन्द्रीय–कृषि–किसान–कल्याण–तथा ग्रामीण–विकास–मन्त्री श्रीशिवराजचौहानः अवदत् यत् पशुधनंम् अस्माकं जीवनस्य ग्राम्य–अर्थव्यवस्थायाः च सुदृढः आधारः अस्ति। भारतस्य गो–वंश–जातयः केवलम् उत्पादन–सीमायां न सीमिताः, अपि तु अस्माकं सांस्कृतिक–परम्पराया: भागा: सन्ति। भारतीय–कृषि–अनुसन्धान–संस्थानस्य (IARI) तथा राष्ट्रिय–डेयरी–अनुसन्धान–संस्थानस्य (NDRI) वैज्ञानिकैः २०१९ वर्षात् आरभ्य नस्ल–संरक्षण–अभियानं नूतनैः आयामैः विस्तारं नीतः।
श्रीशिवराज–चौहानः बुधवासरे पूसाया: आयोजितयोः द्वयोः कार्यक्रमयोः भागं गृहीत्वा पशु–जाति–पञ्जीकरण–प्रमाणपत्राणि वितरितवान्, तथा जाति–संरक्षणे उत्कृष्टं कार्यं कृत्वा वैज्ञानिकान्, संस्थानानि, पशुपालकान् च सम्मानितवान्।
अस्मिन् एव अवसरे भारतीय–कृषि–अनुसन्धान–संस्थाने (IARI)नव–छात्रावासस्य तथा शैक्षणिक–भवनस्य भूमि–पूजनं शिलान्यासं च कृतवान्। अस्य छात्रावासस्य निर्माणेन ३०० छात्राणाम् आधुनिक–सुरक्षित–सुविधा लभ्यते।अवसरेऽस्मिन् मन्त्री चौहानः अवदत् यत् कृषिः नवाचारस्य अवसरस्य च क्षेत्रम् अस्ति।
सः सूचयामास यत् कृषि–विश्वविद्यालयेषु महाविद्यालयेषु च ग्रेडिङ–प्रणाली प्रवर्तनीया, यया गुणवत्तापूर्ण–शिक्षा प्रोत्साह्यते तथा स्वस्थ–प्रतिस्पर्धा–वातावरणं निर्मीयते। सः अवदत् यत् अधुना बहुसंख्यकाः पुत्र्यः कृषि–शिक्षायां अग्रे गच्छन्ति, नव–वंशा: नवाचारैः कृषि–क्षेत्रं नूतनां दिशं प्राप्नोति।
चौहानः अपि अवदत् यत् भारतीय–संस्कृतेः, विज्ञानस्य, आधुनिकतायाः च संगमः एव कृषि–पशुधन–क्षेत्रं सशक्तं करिष्यति। सः कृषकान्, वैज्ञानिकान्, यून: च धरित्र्याः, कृषेः, पशुधनस्य च संरक्षणाय एकत्र आगत्य कार्यं कर्तुम् आह्वानं कृतवान्।
कार्यक्रमे ICAR–इत्यस्य महानिदेशकः डाॅ.माङ्गीलाल–जाटः,तथा IARI–स्य निदेशकः डाॅ.सी.श्रीनिवास–रावः, अन्ये च वरिष्ठ–अधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता