Enter your Email Address to subscribe to our newsletters

खटीमा, 14 जनवरीमासः (हि.स.)। मुख्यमंत्री पुष्करसिंहः धामी मकरसंक्रान्त्याः पावनावसरे उधमसिंहनगरजिलास्थे खटीमानगरे ब्रह्मदेवमन्दिरक्षेत्रे लोहियासेतोः समीपे भगवान् शिवस्य हनूमतः च प्रतिमयोः अनावरणं कृतवान्। मुख्यमन्त्री मन्दिरे पूजां अर्चनां च कृत्वा प्रदेशस्य सुखसमृद्धिं प्रसन्नतां च कामितवान् तथा प्रसादं ग्रहणं कृतवान्।
अतः पूर्वं मुख्यमन्त्री धामी लालकोठ्यां उत्तरायणीमेलायाः फीता छित्त्वा शुभारम्भं कृतवान् तथा मेलास्थितेभ्यः जनैः सह मकरसंक्रान्तेः शुभाशयान् व्यक्तवान्।
अस्मिन् कार्यक्रमे सांसदः अजयः भट्टः, जिला पंचायताध्यक्षः अजयः मौर्यः, नगरपालिकाध्यक्षः रमेशचन्द्रः जोशीः, जिलाधिकारी नितिनसिंहः भदौरियाः, वरिष्ठपुलिसअधीक्षकः मणिकान्तः मिश्रः, अन्ये च अनेके जनप्रतिनिधयः प्रशासनिकाधिकारिणः तथा स्थानीयजनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार