Enter your Email Address to subscribe to our newsletters



मुंबई, 15 जनवरीमासः (हिस)।
महाराष्ट्रे गुरुवासरे एकोनत्रिंशत् (२९) महानगरपालिकानां निर्वाचनाय मतदानं प्रवर्तते। प्रातः ७।३० वादने एव मतदानकेन्द्रेषु मतदातॄणां दीर्घाः पङ्क्तयः दृश्यन्ते। लोकतन्त्रस्य अस्मिन् महापर्वणि सामान्यजनैः सह चलचित्रजगतः अपि अनेकाः प्रसिद्धाः व्यक्तयः उत्साहेन सहभागित्वं कृत्वा स्वमताधिकारस्य प्रयोगं कुर्वन्ति।
अक्षयकुमारः मतं दत्तवान्, जनान् प्रति आह्वानं कृतवान्
अक्षयकुमारः गुरुवासरप्राते मतदानस्य आरम्भसमये एव मुम्बईनगरे गांधीशिक्षणभवनस्थिते मतदानकेन्द्रे गत्वा मतं दत्तवान्। मतदानानन्तरं माध्यमैः सह संवादं कुर्वन् सः अवदत्— “अद्य बीएमसी-निर्वाचनाय मतदानं भवति। मुम्बईनिवासी इति नाते अद्य अस्माकं हस्तेषु दूरनियन्त्रणम् अस्ति। अहं सर्वान् आह्वयामि यत् अधिकाधिकसंख्यया मतदानं कुर्वन्तु। यदि वयं मुम्बईनगरे वास्तविकनायकाः भवितुम् इच्छामः, तर्हि केवलं संवादोच्चारणेन न, अपि तु अत्र आगत्य मतदानं कर्तव्यम्।
ट्विंकलखन्ना अपि नागरिककर्तव्यं निर्वहन्ती
अक्षयकुमारस्य सह तस्य पत्नी अभिनेत्री ट्विंकलखन्ना अपि मतदानाय आगता। मतं दत्त्वा सा अवदत् यत् “मम मतं यत् मतदानात् अस्माकं नियन्त्रणभावः जायते, किञ्चित् शक्तेः अनुभवः भवति। अहं अभ्यासात् च आशायाः कारणात् च मतदानं करोमि।
मतदानकेन्द्रे भावुकः क्षणः
मतदानसमये एकः भावुकः क्षणः अपि दृष्टः। एका लघुबालिका अक्षयकुमारं मेलितुं आगता साहाय्यं च याचिता। सा अवदत् यत् तस्याः पिता ऋणग्रस्तः अस्ति। सुरक्षारक्षकेण तां निरोद्धुं प्रयत्नः कृतः, किन्तु अक्षयकुमारः तां प्रति अवदत्— “त्वं स्वं स्वसंख्यां ददातु।” ततः बालिकया अभिनेतुः पादौ स्पृष्टौ, यत् अक्षयकुमारः तत्क्षणमेव निरुद्धवान्।
सान्यामल्होत्रा अपि मतदानाय आगता
बीएमसी-निर्वाचने बॉलीवुड-अभिनेत्री सान्यामल्होत्रा अपि सहभागी अभवत्। सा गुरुवासरे मतदानकेन्द्रं गत्वा स्वमतं दत्त्वा लोकतान्त्रिकं दायित्वं निर्वहन्ती।
बीएमसी-निर्वाचनस्य अवसर पर तारकाणां उपस्थित्या सामान्यजनाः अपि मतदानाय प्रेरिताः अभवन्।
--------------
हिन्दुस्थान समाचार