Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, १५ जनवरीमासः (हि.स.)। भारतीय-सेनायाः अष्टसप्ततितमः (७८) सेना-दिवस-संचलनं बुधवासरे प्रथमवारं सैन्य-क्षेत्रात् बहिः जयपुर-नगरे जगतपुरा-स्थिते प्रासाद-मार्गे आयोजितम् अभवत्। संचलनं द्रष्टुं मार्गयोः उभयतः सहस्रशः जनाः समागताः। संचलन-काले सेनायाः आधुनिक-सैन्य-शक्तेः पारम्परिक-शौर्यस्य च प्रदर्शनं कृतम्।
सामान्य-जनाः ब्रह्मोस-प्रक्षेपास्त्रं, पिनाका-बहु-नलिका-रॉकेट-प्रक्षेपकं तथा अन्यानि अत्याधुनिक-आयुध-प्रणालीनि समीपतः अपश्यन्। आकाशे अपाचे-आक्रमण-वायुयानै: फ्लाइ-पास्ट कृत्वा युद्धक-क्षमतायाः प्रदर्शनं कृतम्, वायुयानै: पुष्प-वर्षा अपि कृता।संचलनस्य आरम्भः ‘ऑपरेशन-सिन्दूर’ इत्यस्मिन् अभियाने वीरगति-प्राप्तानां सैनिकानां मरणोपरान्तं वीरता-पुरस्कार-प्रदानेन अभवत्। तस्मिन्नेव समये १-पैरा-स्पेशल-फोर्स-समूहस्य शहीद-लांस-नायक-प्रदीप-कुमारस्य माता मञ्चे सम्मान-ग्रहण-काले सहसा मूर्च्छिता अभवत्। उपस्थितैः सैन्य-अधिकारिभिः सा सम्हृता त्वरितमेव एम्बुलेन्स-यानेन चिकित्सालयं प्रेषिता।
ततः परं शौर्य-पुरस्कारैः सम्मानिताः अधिकारिणः परैड-कमाण्डरं प्रति सलामीं दत्तवन्तः। परमवीर-चक्रं, अशोक-चक्रं, महावीर-चक्र-प्राप्ताः अधिकारिणः संचलनस्य नेतृत्वं अकुर्वन्। संचलनं महल-मार्गे स्थितात् जीवन-रेखा-चिकित्सालय-चतुष्पथात् बम्बे-चिकित्सालय-चतुष्पथ-पर्यन्तं प्रायः त्रि-किलोमीटर-परिसरे आयोजितः अभवत्। दर्शकानां सुविधार्थं अष्टादश-स्थानेषु वाहन-स्थापन-व्यवस्था कृता।
संचलने भारतीय-सेनायाः षट्चत्वारिंशत्-मीटर-दीर्घः (४६ मी.) मॉड्यूलर-सेतु: अपि प्रदर्शितः, यः नदीषु शीघ्रं पारगमनाय उपयुज्यते।
तदनन्तरं नेपाल-सेनायाः वाद्य-वृन्देन अपि सहभागिता कृता, येन भारत-नेपालयोः सैन्य-मित्रतायाः सन्देशः प्रदत्तः। ६१-तमी कैवेलरी-दलस्य अश्वारोही-सैनिकाः अपि परैडे सहभागी अभवन्। एषा विश्वस्य एका एव सक्रिय-अश्वारोही-कैवेलरी-रेजिमेण्ट् अस्ति, यस्य स्थापना १९५३ वर्षे अभवत् तथा यस्य इतिहासे अन्तिम-अश्वारोही-आक्रमणस्य नेतृत्व-गौरवं लभ्यते। संचलने राजस्थानी-संस्कृति: अपि दृष्टा।सेना-दिवस-संचलनस्य मुख्य-अतिथि: मिजोरम्-राज्यस्य राज्यपालः जनरल् वी.के.सिंहः आसीत्।
अस्मिन् अवसरे मुख्यमन्त्री भजनलाल-शर्मा, राजस्थानस्य राज्यपालः हरिभाऊ-बागड़े, प्रमुख-रक्षा-अधिकारी (सी.डी.एस्) जनरल् अनिल-चौहानः, सेनायाः वरिष्ठ-अधिकारिणः अन्ये च गणमान्याः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता