101 किलोमितेन लाईतिलकुटद्वारा जातो बाबा गरीबनाथस्य महाश्रृंगारः
मुजफ्फरपुरम्, 15 जनवरीमासः (हि.स.)। बिहारराज्यस्य मुजफ्फरपुरनगरे मकरसंक्रान्तेः पूर्वरात्रौ बाबा गरीबनाथस्य एकशतं किलोग्रामपरिमितैः लाई-तिल-तिलकुटैः महाशृङ्गारः कृतः। पुजारी आशुतोषपाठकः (डाबर बाबा इति प्रसिद्धः) तथा पण्डित अभिषेकपाठकश्च प्रथमं भो
बाबा गरीबनाथ मंदिर में 101 किलो से तीर के लड्डू का भोग  की फोटो


मुजफ्फरपुरम्, 15 जनवरीमासः (हि.स.)।

बिहारराज्यस्य मुजफ्फरपुरनगरे मकरसंक्रान्तेः पूर्वरात्रौ बाबा गरीबनाथस्य एकशतं किलोग्रामपरिमितैः लाई-तिल-तिलकुटैः महाशृङ्गारः कृतः। पुजारी आशुतोषपाठकः (डाबर बाबा इति प्रसिद्धः) तथा पण्डित अभिषेकपाठकश्च प्रथमं भोलेनाथस्य षोडशोपचारपूजनं कृत्वा ततः लाई-तिल-तिलकुटैः महाशृङ्गारं कृतवन्तौ। अनन्तरं धूपदीपैः सह बाबा गरीबनाथस्य आरती समाचरिता।

सनातनसेवार्थसंयोजकः प्रभात मालाकारः गुरुवासरे अवदत् यत् प्रतिवर्षं मकरसंक्रान्तौ बाबा गरीबनाथस्य लाई-तिल-तिलकुटैः शृङ्गारः क्रियते, येन बिहारवासिनां जीवनं सुखसमृद्ध्या मधुरतया च परिपूर्णं भवेत्। पण्डित आशुतोषपाठकः अपि अवदत् यत् कस्यापि पर्वणि आदौ स्वदेवतायै भोगप्रसादार्पणस्य परम्परा अस्ति। तस्मात् प्रथमं बाबा गरीबनाथाय लाई-तिलकुटभोगः समर्पितः, तदनन्तरं वयं सर्वे अद्य मकरसंक्रान्तिं आचरामः।

अस्मिन् अवसरे सन्त अमरनाथः, निरञ्जन झा, अंशु कुमार मिश्रः, मनीष सोनी, पवन महतो, राकेश तिवारी, रमण मिश्रः, रतन चौधरी च सहितं शताधिकाः श्रद्धालवः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार