Enter your Email Address to subscribe to our newsletters

बलिया, 15 जनवरीमासः (हि.स.)।
मकरसंक्रान्तेः पावनपर्वणि महर्षेः भृगोः तपोभूमौ बलियानगरे श्रद्धायाः अद्भुतं दृश्यं दृष्टम्। गङ्गायाः शिवरामपुरमहावीरघाटयोः सहितं जनपदस्य अन्येषु प्रमुखेषु घाटेषु तथा सरयूनद्यां अपि लक्षशः श्रद्धालवः स्नानं कृत्वा पुण्यलाभं प्राप्तवन्तः। प्रातः ब्रह्ममुहूर्तात् एव गङ्गाघाटेषु श्रद्धालूनां महती भीडः समुत्थिता, येन सम्पूर्णं क्षेत्रं “हर हर गङ्गे” तथा “जय श्रीराम” इति जयघोषैः निनादितम्।
श्रद्धालवः पवित्रस्नानानन्तरं सूर्यदेवाय अर्घ्यं दत्तवन्तः, दानपुण्यं च अकुर्वन्। अनेकेषु स्थलेषु खिचडीदानं, तिलगुडदानं, वस्त्रदानं, अन्नदानं च आयोजितम्। जनविश्वासः अस्ति यत् मकरसंक्रान्त्यां गङ्गासरयूयोः स्नानेन समस्तपापानां नाशः भवति, सुखसमृद्धिश्च लभ्यते। अस्य विश्वासस्य आधारेण दूरदूरात् आगताः जनाः घाटेषु आगत्य धार्मिकानुष्ठानानि अकुर्वन्।
दिनोन्नतौ सति घाटेषु मेलावत् वातावरणं अभवत्। ग्राम्यप्रदेशेभ्यः आगताः जनाः गुडं, तिलं, तण्डुलान् च दानरूपेण समर्प्य पर्वं आचरितवन्तः। प्रशासनतः सुरक्षा व्यवस्थाः सुदृढतया कृताः आसन्। प्रमुखघाटेषु पुलिसबलं गोताखोराश्च नियुक्ताः आसन्। स्वास्थ्यविभागस्य दलं अपि सतर्कं दृश्यते स्म। नगरपालिकया शुचिता, प्रकाशव्यवस्था, पेयजलव्यवस्था च सम्यक् प्रकारेण कृताः आसन्। महिलाश्रद्धालूनां सुविधार्थं स्थाने स्थाने वस्त्रपरिवर्तनकक्षाः निर्मिताः।
मकरसंक्रान्त्यवसरे बलियानगरे गङ्गातटे सरयूतटे च श्रद्धायाḥ भक्तेः उत्साहस्य च सुन्दरः सङ्गमः दृष्टः। गङ्गास्नानानन्तरं जनाः बाबा बालेश्वरनाथमन्दिरे अपि जलाभिषेकं कृतवन्तः।
---------------
हिन्दुस्थान समाचार