Enter your Email Address to subscribe to our newsletters









गोरखपुरनगरम्, १५ जनवरीमासः (हि.स.)। मकर–संक्रान्तेः पावन–पर्वणि गोरक्षपीठाधीश्वरः मुख्यमन्त्री च श्रीयोगी–आदित्यनाथः गुरुवासरे ब्रह्म–मुहूर्ते प्रातः चतुर्वादने गोरखनाथ–मन्दिरे नाथ–पन्थस्य विशिष्ट–परम्परानुसारं महायोगिने गुरु–गोरखनाथाय विधि–विधानपूर्वकं श्रद्धा–समन्वितां पवित्रां कृशरां समर्पितवान्।
अस्मिन् अवसरे सः शिवावतार–महायोगिनः समीपे लोक–मङ्गलाय सर्वेषां नागरिकाणां सुखमय–समृद्धमय–जीवनाय च प्रार्थनां कृतवान्। महायोगिने गुरु–गोरखनाथाय कृशरा–अर्पणानन्तरं मुख्यमन्त्री श्रीयोगी–आदित्यनाथः सर्वेभ्यः नागरिकेभ्यः, सन्तेभ्यः, श्रद्धालुभ्यश्च मकर–संक्रान्तेः हार्दिकशुभाशया: अददात्।
पत्रकारकर्मिभिः सह संवादे मुख्यमन्त्री उक्तवान् यत् बुधवासरात् एव सम्पूर्णे प्रदेशे लक्षशः श्रद्धालवः पवित्रेषु धर्मस्थलेषु गत्वा श्रद्धां निवेदयन्ति। गोरखपुरे बुधवासरे लक्षशः श्रद्धालवः महायोगिने भगवते गुरु–गोरखनाथाय पवित्रां कृशरां समर्पितवन्तः। प्रयागराजे अपि लक्षशः श्रद्धालवः सङ्गमे पवित्रस्नानं कृतवन्तः। एषः क्रमः अद्य गुरुवासरे अपि अनवरतं प्रवर्तते।
बाबा–गोरखनाथाय कृशरा–अर्पणं मम सौभाग्यम्
मुख्यमन्त्री उक्तवान्— अद्य गुरुवासरे गोरखपुरे भगवते गुरु–गोरखनाथाय प्रति स्व–श्रद्धां प्रदर्शयितुं लक्षशः श्रद्धालवः पङ्क्तिषु स्थित्वा श्रद्धापूर्वकं कृशरां समर्पयन्ति। प्रातः चतुर्वादने विशिष्ट–पूजाया अनन्तरं मम अपि भगवते गुरु–गोरखनाथाय पवित्र–कृशरा–अर्पणस्य अवसरः लब्धः—एतत् मम सौभाग्यम्। “सूर्यदेवः जगतः आत्मा अस्ति”
मुख्यमन्त्री अवदत्— मकर–संक्रान्तिः भारतस्य पर्व–परम्परायां अत्यन्तं महत्वपूर्णं पर्व अस्ति। सूर्यदेवः वस्तुत: अस्य जगतः आत्मा अस्ति। सूर्योपासनायाः एषः पर्व सर्वेषां शुभ–माङ्गलिक–कार्याणां प्रशस्त–तिथिः मन्यते। अस्मात् दिनात् अनन्तरं सनातन–धर्म–परम्परायां सर्वे माङ्गलिक–कार्यक्रमाः आरभ्यन्ते।
ज्योतिष–परम्परानुसारं सूर्यस्य अयन–वृत्तं द्वादश भागेषु विभक्तम् अस्ति। एकस्मात् राशेः अपरस्मिन् राशौ सूर्यस्य संक्रमणं “संक्रान्तिः” इति कथ्यते। धनु–राशेः मकर–राशौ सूर्यस्य संक्रमणं मकर–संक्रान्तिः उच्यते। मकर–राशेः आरभ्य आगामी षड्मासपर्यन्तं सूर्यदेवः उत्तरायणे स्थिताः भवन्ति। उत्तरायणे दिने वर्धन्ते, रात्रयः ह्रासं यान्ति।
देशस्य सर्वेषु भागेषु भिन्न–नाम–रूपैः मकर–संक्रान्ति–उत्सवः
मुख्यमन्त्री उक्तवान्— मकर–संक्रान्तिः भारतस्य पूर्वे, पश्चिमे, उत्तरे, दक्षिणे च भिन्न–भिन्न–नाम–रूपैः आचर्यते। पूर्वे “बिहू” वा “तिलवा–संक्रान्तिः”, पश्चिमे “लोहडी”, दक्षिणे “पोंगल”, उत्तरे च “खिचडी–संक्रान्तिः” इति प्रसिद्धा अस्ति।
देश–विदेशेभ्यः आगतानां श्रद्धालूनां अभिनन्दनम्
मकर–संक्रान्ति–अवसरे मुख्यमन्त्री देश–विदेशेभ्यः आगतानां श्रद्धालूनां अभिनन्दनं कृत्वा सर्वान् प्रति मङ्गलमयाः शुभाशयाः व्यक्तवान्। सः अवदत्— एकस्मिन् पक्षे गोरखपुरे लक्षशः श्रद्धालवः बाबा–गोरखनाथाय श्रद्धाकृशरां समर्पयन्ति। अपरस्मिन् पक्षे प्रयागराजे लक्षशः श्रद्धालवः, कल्पवासिनः, पूज्य–सन्ताश्च भगवान् वेणीमाधवस्य, भगवान् प्रयागराजस्य, माता–गङ्गायाः, माता–यमुनायाः, माता–सरस्वत्याश्च सान्निध्ये सङ्गमे पवित्रं स्नानं कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता