Enter your Email Address to subscribe to our newsletters

१६ जनवरीमास: भारतस्य कृते गौरव-प्रेरणायाः च स्मरणीयः दिवसः अस्ति। अस्मिन्नेव दिवसे भारतीय-मूलस्य अन्तरिक्ष-वैज्ञानिकी कल्पना-चावला अमेरिकादेशात् अन्तरिक्षे स्वस्य द्वितीयाम् उड्डयन-यात्रां कृतवती।
सप्त-सागरान् अतिक्रम्य स्वप्नं सत्यं कृत्वा सा नासा-संस्थाया: स्पेस-शटल “कोलम्बिया” इत्यनेन यानेन अन्तरिक्ष-यात्रां कृतवती। दुर्भाग्यवशात् एषा यात्रा तस्याः अन्तिमा सिद्धा। षोडश-दिवसात्मकस्य अभियानस्य अनन्तरं ०१ फरवरी २००३ दिवसे पृथिव्यां प्रत्यागमन-काले स्पेस-शटल-दुर्घटनाग्रस्तम् अभवत्, यस्मिन् कल्पना-चावलया सह षट् सहयात्रिकाः अपि दिवंगताः अभवन्।कल्पना-चावला न केवलं विज्ञान-क्षेत्रे भारतस्य नाम उज्ज्वलितवती, अपि तु असंख्यकान् यून:, विशेषतः बालिकाः, स्वप्न-साक्षात्काराय प्रेरितवती।
महत्वपूर्ण घटनाचक्रः (१६ जनवरी)
1547 – इवान-चतुर्थः “इवान-द-टैरिबल” रूसदेशस्य जारः अभवत्।1556 – फिलिप-द्वितीयः स्पेनदेशस्य सम्राट् अभवत्।1581 – ब्रिटिश-संसदेन रोमन-कैथोलिक-मतः अवैधानिकः घोषितः।1681 – रायगढ-दुर्गे छत्रपति-शिवाजिन: पुत्रस्य सम्भाजिन: राज्याभिषेकः सम्पन्नः।1761 – पाण्डिचेरी-नगरे फ्रांसीसी-अधिकारः आंग्लै: समाप्तः।1769 – कलकत्ता-नगरे अकरा-स्थाने प्रथमं योजनाबद्धं अश्व-धावन-प्रतियोगिता आयोजिताऽभवत्।1920 – “लीग-ऑफ-नेशन्स” संस्थायाः प्रथम-परिषद्-सभा पेरिस-नगरे सम्पन्ना।1943 – इण्डोनेशिया-देशस्य अम्बोन-द्वीपे अमेरिकी-वायुसेनया प्रथमम् आक्रमणं कृतम्।1947 – विन्सेण्ट-ऑरियलः फ्रांसदेशस्य राष्ट्रपति: अभवत्।1955 – पुणे-नगरे खड्वासला-राष्ट्रीय-रक्षा-अकादम्याः उद्घाटनम् अभवत्।1969 – सोवियत-अन्तरिक्षयानयोः “सोयुज-४” तथा “सोयुज-५” मध्ये अन्तरिक्षे यात्रिक-विनिमयः कृतः।1973 – अमेरिकी-राष्ट्रपति निक्सनः उत्तर-वियतनामे बमवर्षणं स्थगितुम् आदेशं दत्तवान्।1979 – ईरानदेशस्य शाहः कुटुम्बेन सह मिस्रं प्रस्थितः।1989 – सोवियत-संघेन मङ्गल-ग्रह-मानव-अभियान-योजना उद्घोषिता।1991 – प्रथमं खाड़ी-युद्धम् आरब्धम्।1992 – भारत-ब्रिटेनयोः प्रत्यर्पण-सन्धिः सम्पन्ना।1995 – चेचेन्या-गृहयुद्ध-निरोधाय रूस-चेचेन्या-सन्धि:।1996 – हब्बल-दूरबीनद्वारा शताधिक-नव-आकाशगङ्गाः अन्वेषिताः।1999 – अनिल-सूदः विश्व-धनागारस्य उपाध्यक्षः अभवत्।2000 – चीन-सर्वकारेण द्विवर्षीय-तिब्बती-बालकः “साकार-बुद्ध:” इति मान्यतां प्राप्तः।2003 – कल्पना-चावला द्वितीयाम् अन्तरिक्ष-यात्रां कृतवती।2005 – एफबीआई संस्थया जैश-ए-मोहम्मद-प्रमुखे अज़हर-विरुद्धं भारतस्य सहयोगः याचितः।2006 – मिशेल-बाशलेट् चिली-देशस्य प्रथम-महिला-राष्ट्रपति: अभवत्।2008 – सेतुसमुद्रम् परियोजना-विषये सर्वोच्च-न्यायालयेन केन्द्रसर्वकाराय समयः दत्तः।2009 – मुम्बई-दलेन ३८वीं रणजी-चैम्पियनशिप-विजयः।2013 – सीरिया-देशे इदलिब-नगरस्य विस्फोटेषु २४ जनाः मृताः।2020 – रक्षामन्त्री राजनाथ-सिंहेन के-९ वज्र-टी क्षेपणास्त्राणि राष्ट्राय समर्पितानि।
जन्मदिवसाः
1926 – ओ. पी. नैय्यरः – प्रसिद्ध-सङ्गीतकारः।1927 – कामिनी-कौशलः – हिन्दी-चलचित्र-अभिनेत्री।1931 – सुभाष-मुखोपाध्यायः – भारतस्य प्रथम-टेस्ट-ट्यूब-बेबी-वैज्ञानिकः।1946 – मुनीश्वर-चन्द्र-डावरः – पद्मश्री-सम्मानितः चिकित्सकः।1946 – कबीर-बेदी – भारतीय-अभिनेता।1950 – वी. एस. सम्पत् – भूतपूर्वः मुख्य-निर्वाचन-आयुक्तः।2001 – श्रीहरि-नटराजः – भारतीय-तैराकः।
निधन-दिवसाः
1901 – महादेव-गोविन्द-रानाडे – समाज-सुधारकः।1938 – शरत्-चन्द्र-चट्टोपाध्यायः – सुप्रसिद्धः उपन्यासकारः।1962 – रामनरेश-त्रिपाठी – कविः।1966 – टी. एल. वासवानी – लेखकः, शिक्षाविद्।1988 – एल. के. झा – रिज़र्व-धनागारस्य गवर्नरः।1989 – प्रेम-नजीरः – मलयालम-सिनेमा-नायकः।
महत्वपूर्णदिवसाः
अन्ताराष्ट्रिय-चलचित्र-महोत्सव-दिवसःराष्ट्रीय-सड़क-सुरक्षा-सप्ताहः – ११ तः १७ जनवरी
हिन्दुस्थान समाचार / अंशु गुप्ता