Enter your Email Address to subscribe to our newsletters

भाेपालम्, 15 जनवरीमासः (हि.स.)।
अद्य गुरुवासरे थलसेनादिवसः अस्ति। प्रतिवर्षं देशे १५ जनवरीदिने भारतीयथलसेनादिवसः इति रूपेण आचर्यते।
मध्यप्रदेशस्य मुख्यमंत्री डाॅ. मोहन यादवः थलसेनादिवसस्य अवसरॆ मातृभूमेः रक्षणार्थं स्वस्य अदम्यसाहसेन अद्भुतपराक्रमेण च सदैव तत्परान् भारतीयसेनायाः सर्वान् वीरजवानान् शुभाशयाः प्रेषितवान्।
मुख्यमंत्री डाॅ. यादवः सामाजिकमाध्यमे एक्स इति मंचे संदेशं प्रकाशयन् अवदत्
“थलसेनादिवसस्य हार्दिकाः अभिनन्दनाः शुभाशयाश्च। विषमासु, परिस्थितिपूर्णासु कठिनासु च परिस्थितिषु अपि देशरक्षणाय कर्तव्यपथे समर्पितानां सेनाजवानानां विषये सम्पूर्णं राष्ट्रं गर्वं अनुभवति। ये शूरवीराः देशरक्षणार्थं स्वप्राणान् न्यौछाव अर्पितवन्तः, तेषां कोटिशः नमनम्।”
---------------
हिन्दुस्थान समाचार