Enter your Email Address to subscribe to our newsletters

नोएडा, 15 जनवरीमासः (हि.स.)।
उत्तरप्रदेशस्य नोयडा-नगरे ग्रेटर-नोयडा-प्राधिकरणेन क्षेत्रे निवेशाय २९ कम्पनीभ्यः भूमिः आवंटिता अस्ति। एताःस़स्थाः नगरे पञ्चशताधिक-कोटि-रूप्यकाणां निवेशं करिष्यन्ति। एतेन पञ्चसहस्राधिकानां जनानां जीविकानाम् अवसरः उपलब्धो भविष्यति। गौतमबुद्धनगर-जनपदे नोयडा-विमानपत्तनस्य आगमनानन्तरं निवेशकानां रुचिः अत्यधिकं वर्धिता अस्ति। अत्र देशविदेशयोः अनेकाः महतीः कम्पन्यः आगच्छन्ति।
ग्रेटर-नोयडा-प्राधिकरणेन ३९ औद्योगिक-भूखण्डानां योजना प्रवर्तिता आसीत्। तेषु २९ भूखण्डानां लाभग्राहिभ्यः आवंटनपत्राणि प्रदत्तानि सन्ति। तेषां सह सहमति-पत्रम् (एमओयू) अपि कृतम्, येन ते समये एव स्वा-उत्पादन-एककान् आरम्भयितुं शक्नुवन्ति।
ग्रेटर-नोयडा-विकास-प्राधिकरणस्य अपर-मुख्य-कार्यपालक-अधिकारी सौम्यः श्रीवास्तवः अवदत् यत् ३९ कम्पनीषु २९ संस्थाभ्यः आवंटनपत्रं दत्त्वा ताभिः सह सहमति-पत्रं कृतम् अस्ति। निर्धारितकाले उद्योगाणां आरम्भः कारयिष्यते। तेन पञ्चशत-कोटि-रूप्यकाणां निवेशः भविष्यति तथा सहस्रशः जनानां जीविका अपि सृज्यते इति तेन दावः कृतः।
---------------
हिन्दुस्थान समाचार