कलाकृति-कला-विद्यालये नशा-मुक्ति-चित्रकला-शिविरम् आयोजितम्
राँचीनगरम्, १५ जनवरीमासः (हि.स.)। कलाकृति-स्कूल-ऑफ-आर्ट्स-विद्यालये नालसा-संस्थाया: गुरुवासरे डॉन–२०२५ योजनाया: अन्तर्गतं द्विदिवसीय-चित्रकला-शिविरं प्रदर्शिनी च आयोजिते। जिला-विधिक-सेवा-प्राधिकरणेन (डालसा) तथा कलाकृति-आर्ट-फाउण्डेशन-इत्येतयोः संय
चित्रकला का प्रदर्शन करते स्‍कूली छात्र की तस्‍वीर


चित्रकला में शामिल बच्‍चों सहित अन्‍य की तस्‍वीर


राँचीनगरम्, १५ जनवरीमासः (हि.स.)। कलाकृति-स्कूल-ऑफ-आर्ट्स-विद्यालये नालसा-संस्थाया: गुरुवासरे डॉन–२०२५ योजनाया: अन्तर्गतं द्विदिवसीय-चित्रकला-शिविरं प्रदर्शिनी च आयोजिते।

जिला-विधिक-सेवा-प्राधिकरणेन (डालसा) तथा कलाकृति-आर्ट-फाउण्डेशन-इत्येतयोः संयुक्त-तत्त्वावधानेन आयोजितस्य कार्यक्रमस्य शुभारम्भः मुख्य-अतिथिना डालसा-सचिवेन श्री-राकेश-रोशन-महोदयेन कृतः।

अस्मिन् अवसरे सः अवदत् यत् डॉन–२०२५ योजनाया: मुख्य-उद्देश्यं नव-वंशं नशा-दुष्प्रभावेषु जागरूकां करणम् अस्ति। सः अवदत् यत् कला एकं सशक्तं माध्यमम् अस्ति, येन समाजे सकारात्मक-परिवर्तनं सम्भवति।

अस्यां कार्यशालायां कलाकृति-विद्यालयस्य अनेके प्रतिभाशालिनः छात्राः सहभागं कृतवन्तः। बालकैः स्व-तूलिकया वर्णैश्च नशायाः भयावहता, तस्य कारणात् विनश्यन्त: परिवाराः इति व्यथा च सजीव-रूपेण चित्रिता।

कलाकृति-स्कूल-ऑफ-आर्ट्स -विद्यालयस्य निदेशकः सह चित्रकारः श्री-धनञ्जय-कुमार-महोदयः अवदत् यत् एतादृशैः जागरूकता-कार्यक्रमैः यून: नशात् दूरं स्थातुं प्रेरणा प्राप्यन्ते। सः बलं दत्तवान् यत् कलाया: माध्यमेन बालकाः अनुशासनं, चरित्र-निर्माणं, सेवा-भावनां च आत्मसात् कर्तुं शक्नुवन्ति।

अस्मिन् अवसरे लाइफ-सेवर्स-एनजीओ संस्थाया: प्रमुखः श्री-अतुल-गेरा अपि उपस्थितः आसीत्। शिविरे शिखा, मनस्वी, अर्चना, अमीषा, अनिया, राज:, तुषार:, पीहू, भूमिका, भूमि:, विवानः इत्यादयः अन्ये च बालकाः सहभागिनः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता