मकर-संक्रान्त्यां महाप्रभवे जगन्नाथाय तिल-चूडा-दधि-भोगः अर्पितः
राँचीनगरम्, १५ जनवरीमासः (हि.स.)। ऐतिहासिके जगन्नाथपुर-मन्दिरे गुरुवासरे मकर-संक्रान्ति-महोत्सवः महाहर्षेण आचरितः। प्रातः त्रिवादनसमये मन्दिरस्य कपाटः उद्घाटितः। ततः परं महाप्रभोः जगन्नाथस्य मङ्गल-आरार्तिकी सम्पन्ना, बाल-भोग-प्रसादः च अर्पितः। विष्
भगवान की पूजा'अर्चना करते श्रद्धालु


राँचीनगरम्, १५ जनवरीमासः (हि.स.)। ऐतिहासिके जगन्नाथपुर-मन्दिरे गुरुवासरे मकर-संक्रान्ति-महोत्सवः महाहर्षेण आचरितः। प्रातः त्रिवादनसमये मन्दिरस्य कपाटः उद्घाटितः। ततः परं महाप्रभोः जगन्नाथस्य मङ्गल-आरार्तिकी सम्पन्ना, बाल-भोग-प्रसादः च अर्पितः। विष्णु-अष्टकस्य पाठः अपि कृतः।

प्रातः ६:३० वादनात् आरभ्य सामान्य-श्रद्धालुभ्यः दर्शन-पूजनम् आरब्धम्। प्रातःकालादेव श्रद्धालवः मन्दिरं समागत्य महाप्रभोः दर्शन-पूजनं कृत्वा दरिद्रेषु दानं च अकुर्वन्।

जगन्नाथ-मन्दिर-न्यास-समित्या महाप्रभवे तिलः, चूडा, दधि:, गुडः, तिलकूटः इत्यादीनां भोगः अर्पितः। अपराह्णे द्वादश-वादने (१२:००) महाप्रभवे गञ्ज-भोग-रूपेण कृशर:, शाकं, पायसं च समर्पितम्। अस्मिन् अवसरे न्यास-समित्या सहस्रशः श्रद्धालुभ्यः महाभोग-रूपेण तिलकूटः, चूडा, दधि:, कृशर:, शाकं, पायसं च वितरितम्।

महाप्रभोः विशेष-पूजा-अनुष्ठानं मन्दिरस्य पुजारिभिः — श्री-रामेश्वर-पाढ़ी, सरयू-नाथ-मिश्रः, मदनमोहन-पाढ़ी, श्रीराम-महन्ती, कुस्तुबधार-मिश्रः, अश्वनी-नाथ-मिश्रः, गणेश-पाढ़ी इत्यादिभिः अन्यैः आचार्यैश्च सम्यक् सम्पादितम्।

पूजन-कार्यक्रमे मन्दिर-न्यास-समितेः उपाध्यक्षः श्री-अशोक-नरसरिया, सचिवः श्री-मिथिलेश-कुमारः, प्रथम-सेवकः सेवईत-ठाकुरः श्री-सुधांशु-नाथ-शाहदेवः, झारखण्ड-उच्च-न्यायालयस्य पूर्व-न्यायाधीशः श्री-एस्.एन.-पाठकः, श्री-वीरेन्द्र-त्रिपाठीः इत्यादयः अन्ये च गणमान्याः उपस्थित्वा महाप्रभोः पूजा-अर्चनां कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता