वर्णीयप्रकाशेन सज्जं जलपाईगुड़ी सर्किट बेंच भवनं, 17 जनवरी तमे दिनाङ्के उद्घाटनम्
रंगीन रोशनी से सजा जलपाईगुड़ी सर्किट बेंच भवन, 17 जनवरी को होगा उद्घाटन
जलपाईगुड़ी सर्किट बेंच के नवनिर्मित भवन को रंगीन रोशनी से सजाया गया


जलपाईगुड़ी, 15 जनवरीमासः (हि.स)। कलकत्तायाः उच्चन्यायालयस्य जलपाईगुडी-सर्किटबेंचस्य नवनिर्मितं भवनं उद्घाटनात् पूर्वमेव रंगीनप्रकाशैः भव्यतया अलङ्कृतम् अस्ति। आगामि सप्तदशे जानेवारीमासे अस्य नूतनभवनस्य औपचारिकम् उद्घाटनं भविष्यति।

तैयारीणां निरीक्षणार्थं बुधवासरे सायङ्काले सिलीगुडीनगरस्य महापौरः गौतमदेवः नूतनभवनं निरीक्षितुं आगतः। तेन सह जलपाईगुडी-नगरपालिकायाः अध्यक्षः सैकतचट्टोपाध्यायः अपि उपस्थितः आसीत्। निरीक्षणकाले भवनस्य आधारभूतसंरचना, सुरक्षा-व्यवस्था, अन्ये च विविधाः विषयाः सम्यक् रूपेण समीक्षिताः।

प्रशासनतर्फेण उक्तं यत् उद्घाटनसमारोहस्य सर्वाः तयारीः प्रायः अन्तिमावस्थां प्राप्ताः सन्ति। सायंकाले भवनस्य आकर्षकप्रकाशव्यवस्थां सौन्दर्यं च द्रष्टुं बहवः सामान्यजनाः तत्र आगच्छन्ति।

प्राप्तसूचनानुसारं सर्किटबेंच-भवनस्य उद्घाटनसमारोहे सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः उपस्थितः भविष्यति। अस्मिन् अवसरे महापौरः गौतमदेवः अवदत् यत् उत्तरबङ्गप्रदेशस्य जनानां दीर्घकालीनां याचनां पूरयित्वा जलपाईगुडीनगरे सर्किटबेंचस्य स्थापना कृता। सर्किटबेंच-भवननिर्माणार्थं राज्यसरकारया पञ्चशतैककोटि-रूप्यकाणां (५०१ कोटि) आवंटनं कृतम्।

सः अपि अवदत् यत् अधुना उत्तरबङ्गप्रदेशस्य न्यायार्थिनां न्यायप्राप्तये कोलकातानगरं गन्तुं आवश्यकता न भविष्यति। मुख्यमन्त्रिण्या ममता बनर्ज्याḥ पहलया जलपाईगुडीनगरे सर्किटबेंच-निर्माणं सम्भवं जातम्।

हिन्दुस्थान समाचार