Enter your Email Address to subscribe to our newsletters

धर्मशाला, 15 जनवरीमासः (हि.स.)।
काङ्गडाजनपदः पुनः एकवारं गौरवान्वितः अभवत्। देहरोपमण्डलस्य निवासी नीतिका स्वसमर्पणेन, निस्वार्थसेवया तथा अनुकरणीयैः कर्मभिः न केवलं स्वक्षेत्रस्य, अपि तु सम्पूर्णस्य काङ्गडाजनपदस्य नाम राष्ट्रियस्तरे प्रकाशयितवती अस्ति। नीतिका गतत्रीणि वर्षाणि “आपदामित्रा” रूपेण काङ्गडाजनपदे पूर्णनिष्ठया, निष्पक्षतया तथा सेवाभावेन निरन्तरं सेवां प्रदत्तवती अस्ति।
गतत्रीणि वर्षेषु जनपदे आगतासु विविधासु आपदासु नीतिका दिवानिशं कञ्चन स्वार्थं विना स्वसेवाः अर्पितवती। आपदाकाले पीडितजनानां सुरक्षितस्थलेषु प्रापणम्, रक्षणकार्येषु सक्रियसहयोगः, आवश्यकतानुसारं भोजनस्य आवश्यकसामग्रीणां च वितरणम्, पशूनां रेस्क्यू इत्यादिषु अपि दुष्करेषु कार्येषु सा उल्लेखनीयं योगदानं कृतवती। नीतिकया साहसं, संवेदनशीलता तथा मानवीयमूल्यानि प्रदर्शयित्वा स्वकर्तव्यस्य दायित्ववादितया निर्वाहः कृतः।
नीतिकायाः सेवाः केवलं दायित्वपर्यन्तं न सीमिताः आसन्, अपि तु आपदाप्रभावितपरिवाराणां कृते सा आशायाः, विश्वासस्य तथा संबलस्य च स्रोतः अभवत्। तस्याः सततप्रयत्नैः, अनुशासनेन तथा सेवाभावेन प्रशासनस्य समाजस्य च विश्वासः अर्जितः। एतस्याः निरन्तरायाः सराहनीयायाः च सेवायाः फलस्वरूपं तस्यै एकं गौरवपूर्णं राष्ट्रियावसरं प्राप्तम्।
आगामिनि २६ जनवरी दिने राष्ट्रपतिभवने, नूतनदिल्लीस्थिते, आयोज्यमाने कार्यक्रमे सहभागितायै नीतिकायै आमन्त्रणं लब्धम्। अतिरिक्तजिलादण्डाधिकारी शिल्पी बेक्टा नीतिकायै शुभाशयान् प्रदाय तस्याः कार्याणां प्रशंसां कृतवती। सा अवदत् यत् नीतिकासदृश्याः समर्पिताः आपदामित्राः जनपदस्य प्रेरणास्रोतः सन्ति, तथा तस्याः कार्यं अन्यान् युवान् अपि समाजसेवा-आपदाप्रबन्धनयोः क्षेत्रे अग्रसरितुं प्रेरयिष्यति।
हिन्दुस्थान समाचार