Enter your Email Address to subscribe to our newsletters

-तिलस्य लड्डुकानामेव अर्पितो भोगःउज्जैनम्, 15 जनवरीमासः (हि.स.)।मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वविख्याते ज्योतिर्लिङ्गे भगवान् महाकालेश्वरस्य मन्दिरे गुरुवासरे मकरसंक्रान्तिपर्व महता उत्साहेन समारूढम्। अस्मिन् अवसरे भगवान् महाकालाय तिलानि समर्पितानि। मकरसंक्रान्तिपर्वणि सर्वप्रथमं बाबामहाकालस्य तिलतैलेन स्नानं कृत्वा अभिषेकः सम्पन्नः, ततः तिललड्डुकानां विविधपक्वान्नानां च नैवेद्यं निवेदितम्।
महाकालमन्दिरस्य पुजारी पण्डितः महेशशर्मा अवदत् यत् ज्योतिषगणनानुसारं सूर्यस्य मकरराशौ प्रवेशः चतुर्दशे जानेवारीमासस्य अपराह्णे त्रिवादनपञ्चमिनिटसमये अभवत्, किन्तु पर्वकालः अद्य आरभ्यते स्म, अतः अद्यैव एतत् पूजनं कृतम्। उज्जयिन्यां कस्यापि पर्वणः आरम्भः बाबामहाकालस्य द्वारात् एव भवति। अस्यां परम्परायां अनुसृत्य मकरसंक्रान्तिपर्व अपि सर्वप्रथमं महाकालमन्दिरे आचरितम्।
प्रातः चतुर्वादने मन्दिरस्य कपाटाः उद्घाटिताः। तदनन्तरं पण्डैः पुजारिभिः गर्भगृहे प्रतिष्ठितानां सर्वेषां देवदेवीनां प्रतिमानां पूजनं कृत्वा तिलोद्वर्तनेन भगवान् महाकालः स्नापितः। अस्मिन् काले दुग्धेन दध्ना घृतेन शर्करया फलैः तिलतैलेन च निर्मितेन पञ्चामृतेन भगवान् पूजितः। प्रथमघण्टानादेन सह हरिओमित्युक्त्वा जलार्पणं कृतम्।
कपूरारत्यनन्तरं जटाधारिणे भगवान् महाकालाय मस्तके रजतचन्द्रः, भाङ्गा, चन्दनं, गुलाबपुष्पमालाः च अर्पिताः। ततः बाबामहाकालस्य रजतमुकुटं त्रिपुण्डं च समर्प्य शृङ्गारः कृतः। शृङ्गारसमाप्तौ ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्माभ्यञ्जनं कृतम्। पश्चात् भाङ्गया शुष्कफलैः आभरणैः पुष्पैः च राजस्वरूपेण भगवान् अलङ्कृतः।
भस्मार्पणानन्तरं शेषनागस्य रजतमुकुटं, रजतशिरोमालां, रुद्राक्षमालां, सुगन्धिपुष्पनिर्मिताः मालाः च अर्पिताः। फलानि शर्करानिर्मिताः तिललड्डुकानि तिलपक्वान्नानि च महाभोगरूपेण निवेदितानि। बहवः श्रद्धालवः आगत्य बाबामहाकालस्य आशीर्वादं प्राप्नुवन्। जनविश्वासः अस्ति यत् भस्मार्पणानन्तरं भगवान् निराकारात् साकाररूपेण दर्शनं ददाति।
मकरसंक्रान्त्यां श्रद्धालवः शिप्रानद्यां श्रद्धास्नानं कृतवन्तः। उज्जयिन्यां गुरुवासरे अपि मकरसंक्रान्तेः पावनपर्व आचरितम्। प्रातःकाले एव शिप्रानद्याः घाटेषु अद्भुतः श्रद्धासङ्गमः दृष्टः। ब्रह्ममुहूर्तात् आरभ्य रामघाटे दत्ताखाडाघाटे अन्येषु च स्नानघाटेषु श्रद्धालूनां महासंमर्दः समागताभवत्। श्रद्धालवः शिप्रानद्यां पवित्रस्नानं कृत्वा सूर्यदेवाय अर्घ्यं दत्तवन्तः, कुटुम्बस्य सुखसमृद्धये कामनां च अकुर्वन्।
रामघाटस्य पुजारी पण्डितः आनन्दजोशी अवदत् यत् मकरसंक्रान्त्यवसरे शिप्रास्नानस्य विशेषं महत्त्वं वर्तते, येन दूरदराजात् अपि श्रद्धालवः उज्जयिनीम् आगच्छन्ति। पावनस्नानस्य सुचारुसम्पादनाय प्रशासनस्य नगरनिगमस्य च द्वारा घाटेषु शुचिता, सुरक्षा, पेयजलव्यवस्था सहिताः सर्वाः आवश्यकव्यवस्थाः कृताः आसन्। श्रद्धालूनां सुरक्षार्थं पुलिसहोमगार्डयोः सैनिकाः अपि नियुक्ताः आसन्, येन स्नानकार्यं शान्तिपूर्णं सुरक्षितं च सम्पन्नम्। घाटप्रदेशे भक्तेः उत्साहस्य च वातावरणं आसीत्। श्रद्धालवः जयकारैः सह पर्वणो हर्षं प्रकटयन्तः दृश्यन्ते स्म।________________
हिन्दुस्थान समाचार