Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, १५ जनवरीमासः (हि.स.)। विश्व-प्रसिद्ध-ज्योतिर्लिङ्ग-भगवतः श्री-महाकालेश्वरस्य नगरी उज्जयिन्याम् आयोजितस्य महाकाल-महोत्सव–२०२६ इत्यस्य द्वितीये दिवसे, अद्य गुरुवासरे, श्री-महाकाल-लोके शिव-तत्त्वाधारितं भव्यं सांगीतिक-प्रस्तुतिः “शिवा” इति महोत्सवस्य प्रमुखाकर्षणं भविष्यति।
सायं ७ वादनात् आयोजितायाम् अस्यां विशेष-सांस्कृतिक-सन्ध्यायां देशस्य प्रतिष्ठितः सङ्गीत-समूहः “द-ग्रेट्-इण्डियन-कॉयर (मुम्बई)” भगवतः शिवस्य तत्त्वं, भक्तिं तथा आध्यात्मिक-चेतनां स्वरबद्धतया प्रस्तौष्यति। एषा प्रस्तुति: सङ्गीत-साधना-शिवानुभवस्य अद्भुतः सङ्गमः भविष्यति।
मुख्यमन्त्रिणः मोहन-यादवस्य सांस्कृतिक-सलाहकारः श्रीराम-तिवारी अवदत् यत् वीर-भारत-न्यासेन, विक्रमादित्य-शोध-पीठेन तथा श्री-महाकालेश्वर-मन्दिर-प्रबन्ध-समित्या संयुक्त-तत्त्वावधानेन उज्जयिन्याम् आयोजितस्य पञ्चदिवसीयस्य महाकाल-महोत्सवस्य उद्देश्यं भगवतः शिवस्य तत्त्वं, महाकाल-अवधारणां, तथा भारतीय-संस्कृतिं, साहित्यं, लोक-परम्पराश्च जन-जनं प्रति प्रसारणम् अस्ति। अस्य अन्तर्गतं शैक्षणिक-सांस्कृतिक-लोक-कलात्मकानां कार्यक्रमाणां शृङ्खला आयोजयिष्यते, यस्मिन् देश-विदेशयोः विद्वांसः, कलाकाराः, सांस्कृतिक-दलानि च सहभागितां करिष्यन्ति।
अन्ताराष्ट्रिय-संगोष्ठी – “शिव-तत्त्वं तथा महाकालः”
महोत्सवस्य अन्तर्गतं अद्य अन्ताराष्ट्रिय-संगोष्ठी आयोजिता भविष्यति, यस्य विषयः “शिव-तत्त्वं तथा महाकालः – पुरातिहास-साहित्य-संस्कृति-परिप्रेक्ष्ये” इति भविष्यति। संगोष्ठी प्रातः १०.३० वादनात् त्रिवेणी-संग्रहालये आरभ्स्यते। अत्र विद्वांसः शोध-परक-आलेखान्, विचारान् च प्रस्तौष्यन्ति, ये शिव-परम्परायाः दार्शनिक-सांस्कृतिक-ऐतिहासिक-पक्षान् प्रकाशयिष्यन्ति।
जनजातीय-लोक-नृत्य-प्रस्तुतयः
महोत्सवे मध्यप्रदेशस्य समृद्धा जनजातीय-संस्कृतिः मंचं प्राप्स्यति। अद्य— गोंड-जनजातीय-गुडुम-बाजा – अशोक-कुमार-मार्कों-सहितैः (डिण्डोरी) बैगा-जनजातीय-करमा-नृत्यम्-दयाराम-सहितैः (डिण्डोरी)बेरेडी-नृत्यम् – मनीष-यादव-सहितैः (सागर) भील-जनजातीय-भगोरिया-नृत्यम् – मनीष-सिसोदिया-सहितैः (धार) इत्यादीनि लोक-जीवनस्य, परम्परायाः, आस्थायाश्च जीवन्त-चित्रं प्रदर्शयिष्यन्ति।
कला-यात्रा तथा लोक-वादनम्
महोत्सवे अद्य कला-यात्रा अन्तर्गतंडमरू-वादन-दलम् – मुकेश-शास्त्री-सहितं (उज्जयिनी) प्रस्तुतिं दास्यति। एषा यात्रा रामघाट–हरसिद्धि-पथ–बृहद्-गणेश- महाकाल-लोक-मार्गे आयोजयिष्यते। कला-यात्रायाः समयः अपराह्णे ४ वादनम् निश्चितः अस्ति। विशेष-सांस्कृतिक-सन्ध्या – “शिवा” श्री-महाकाल-लोके अद्य सायं ७ वादनात् “शिवा” विषयाधारितं भव्यं सांगीतिक-प्रस्तुतिः आयोज्यते। द-ग्रेट्-इण्डियन-कॉयर् (मुम्बई) द्वारा प्रस्तुतं एतत् कार्यक्रमं भक्ति-सङ्गीत-आध्यात्मिक-चेतनायाः अनुपमः सङ्गमः भविष्यति।
श्रीराम-तिवारिणः अनुसारं, श्री-महाकाल-महोत्सवः केवलं सांस्कृतिक-कार्यक्रमः न, अपि तु भारतीय-चेतनायाः, शिव-दर्शनस्य, लोक-परम्पराणां च जीवन्तः उत्सवः अस्ति, यः उज्जयिन्याः सांस्कृतिक-परिचयं राष्ट्रीय-अन्ताराष्ट्रिय-स्तरे सुदृढं करिष्यति।
तेन नगरस्य श्रद्धालून्, संस्कृतिप्रेमिणः, विद्यार्थिनः, शोधार्थिनश्च महोत्सवे सहभागितां कृत्वा आयोजनस्य सफलतायै आह्वानम् कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता