बृहन्मुम्बई-नगर-निगमेन सहितं महाराष्ट्रस्य २९ नगरपालिकासु मतदानं प्रचलति, १६ जनवरीमासे मतगणना
मुम्बईनगरम्, १५ जनवरीमासः (हि.स.)। महाराष्ट्रे गुरुवासरे प्रातः ७.३० वादने २९ नगर-निकाय-निर्वाचनाय मतदानम् आरब्धम्। बृहन्मुम्बई-नगर-निगमेन सहितं २९ नगरपालिकानां निर्वाचनाय मतदानं सायं ५.३० वादनपर्यन्तं प्रचलिष्यति। मतानां गणना १६ जनवरीमासे मुम्बई-न
बृहन्मुम्बई-नगर-निगमेन सहितं महाराष्ट्रस्य २९ नगरपालिकासु मतदानं प्रचलति, १६ जनवरीमासे मतगणना


मुम्बईनगरम्, १५ जनवरीमासः (हि.स.)। महाराष्ट्रे गुरुवासरे प्रातः ७.३० वादने २९ नगर-निकाय-निर्वाचनाय मतदानम् आरब्धम्। बृहन्मुम्बई-नगर-निगमेन सहितं २९ नगरपालिकानां निर्वाचनाय मतदानं सायं ५.३० वादनपर्यन्तं प्रचलिष्यति। मतानां गणना १६ जनवरीमासे मुम्बई-नगरे २३ निर्दिष्ट-केन्द्रेषु भविष्यति।

अद्य प्रातः बृहन्मुम्बई-नगर-निगमेन सहितं २९ नगरपालिकासु— छत्रपतिसम्भाजीनगर-नवीमुम्बई-वसईविरार कल्याणडोम्बिवली-कोल्हापुर- नागपुर-मुम्बई-सोलापुर-अमरावती-अकोला-नासिक-पिंपरी-चिंचवाड-पुणे-उल्हासनगर-ठाणे-चन्द्रपुर-परभणी-मीराभायन्दर-नांदेड़वाघाला-पनवेल-भिवण्डी-निजामपुर-लातूर-मालेगाव-सांगलीमिराजकुपवाड-जलगाव-अहिल्यानगर-धुले-जालना-इचलकरंजी—इत्यादिषु स्थलेषु नगर-निकाय-निर्वाचनाय मतदानं प्रवर्तते।

महाराष्ट्रस्य नगर-निकाय-निर्वाचने मुख्यः सङ्घर्षः भाजप-नेतृत्वे स्थितायाः महायुतेः तथा उद्धव-ठाकरेण राज-ठाकरेण च सह शरद्-पवारस्य गठित-संघस्य मध्ये वर्तते।

हिन्दुस्थान समाचार / अंशु गुप्ता