उपराष्ट्रपतिः प्रधानमन्त्री च देशवासिभ्य: मकर–संक्रान्ति–पोंगल–पर्वणो: शुभाशया: प्रदत्तवन्तौ
नवदिल्ली, १५ जनवरीमासः (हि.स.)। मकर–संक्रान्ति, पोंगल, सुग्गी–हब्बा, माघी, भोगली–बिहू, खिचडी, पौष–पर्व, उत्तरायणं तथा मकर–विलक्कू–उत्सवानाम् अवसरे उपराष्ट्रपतिः श्री–सी.पी.–राधाकृष्णनः, प्रधानमन्त्री श्री–नरेन्द्र–मोदी तथा अन्ये प्रमुख–नेतारः देशव
पोंगल और मकर संक्रांति


नवदिल्ली, १५ जनवरीमासः (हि.स.)।

मकर–संक्रान्ति, पोंगल, सुग्गी–हब्बा, माघी, भोगली–बिहू, खिचडी, पौष–पर्व, उत्तरायणं तथा मकर–विलक्कू–उत्सवानाम् अवसरे उपराष्ट्रपतिः श्री–सी.पी.–राधाकृष्णनः, प्रधानमन्त्री श्री–नरेन्द्र–मोदी तथा अन्ये प्रमुख–नेतारः देशवासिभ्यः हार्दिक्य: शुभाशया: प्रदत्तवन्तः।

गुरुवासरे उपराष्ट्रपतिः श्री–सी.पी.–राधाकृष्णनः “एक्स” माध्यमे लिखितवान्— “थाई–पोंगल–पर्वणः शुभ–अवसरे सर्वेभ्यः हार्दिक्य: शुभाशयाः। अयं शस्य–उत्सवः अस्मान् प्रकृतेः, अस्माकं कृषकाणां तथा कठोर–परिश्रम–भावनां प्रति अस्माकं कृतज्ञतां स्मारयति, येन देशः धार्यते। पोंगल–पर्व सर्वेषु गृहेषु समृद्धिं, सौहार्दं, नव–आशां च आनयतु। अहं सर्वेषां सुखम्, आरोग्यं, सफलतां च कामये।”

प्रधानमन्त्री श्री–नरेन्द्र–मोदीः अवदत्—

“पोंगल–संक्रान्ति–पर्वणो: अवसरॆ सर्वेभ्यः अभिनन्दनम्। पोंगल–उत्सवः यथा जनान् एकत्र आनयति तथा समाजे सौहार्द–उष्णतां वर्धयति—एतत् दृष्ट्वा हर्षः जायते। अयं उत्सवः कृषेः परिश्रमस्य च गरिमाम् अपि प्रकाशयति। एतत् पोंगलपर्व भवताम् आकाङ्क्षाणां पूर्तये नव–ऊर्जां ददातु। अहं सर्वेषां उत्तम–आरोग्याय, समृद्धये च प्रार्थये।”

केन्द्रीय–गृहमन्त्री श्री–अमित–शाहः अवदत्— “अस्मिन् वर्षे, यदा वयं प्रकृत्या सह अस्माकं समृद्ध–विरासतया सह सम्बन्धं सम्मानयामः, तदा एकता–सौहार्द–भावनया प्रेरिताः भूत्वा अग्रे गच्छामः—या भावना पोंगल–मकर–संक्रान्ति–उत्सवयोः दर्शनं ददाति।”

केन्द्रीय–सड़क–परिवहन–मन्त्री श्री–नितिन–गडकरी अवदत्—

“अयं हर्ष–उल्लास–समन्वितः पावन–पर्व सर्वेषां जीवनम् उत्तम–आरोग्येन, सुख–समृद्ध्या च पूरयतु।”

केन्द्रीय–वस्त्र–मन्त्री श्री–गिरिराज–सिंहः अवदत्— “भारतस्य समृद्ध–कृषि–संस्कृतेः प्रति समर्पितः अयं पावन–उत्सवः भवतां जीवनं सुखेन, समृद्ध्या, उत्तम–आरोग्येन च पूरयतु।”

लोकसभायां विपक्ष–नेता श्री–राहुल–गान्धीः सामाजिक–माध्यमे लिखितवान्—

“मकर–संक्रान्ति, पोंगल, सुग्गी–हब्बा, माघी, भोगली–बिहू, कृशर:, पौष–पर्व, उत्तरायणं, मकर–विलक्कू—एते सर्वे उत्सवाः नव–आरम्भं, आशां, हर्षं च आनयन्तु तथा भवतां जीवनं सुख–समृद्ध्या पूरयन्तु।”

काङ्ग्रेस–नेत्री श्रीमती प्रियङ्का–गान्धी–वाड्रा अवदत्—

“अयं शस्य–उत्सवः अस्माकं कृषकाणां समृद्धिं, सर्वेषु गृहेषु आनन्दं च आनयतु।”

हिन्दुस्थान समाचार / अंशु गुप्ता